दैनिक जीवने वयं बहुवारं 108 संख्‍याया: प्रयोगं पश्‍याम: ।  कस्‍यचिदपि सभायां यदा कस्‍यचित् महाभागस्‍य सम्‍बोधनं क्रियते चेत् प्रायश: श्री श्री 108  इति सम्‍बोधनं क्रियते।
अद्य पर्यन्‍तं वयं शताधिक वारं अस्‍य प्रयोगं पश्‍याम:, कुर्म: चापि किन्‍तु कदापि अस्‍माकं हृदये एतस्मिन् विषये जिज्ञासा न प्रभवति यत् एतस्‍या: संख्‍याया: प्रयोग: किमर्थं क्रियते कस्‍य कृते वा।
अस्‍य महत्‍वं किम्।
अस्‍य तात्‍पर्यं किम्।

अद्य वयं अस्‍य विषयस्‍योपरि विचारं करिष्‍याम :।
108 संख्‍याया: प्रयोग: प्राय ज्‍येष्‍ठानां सम्‍बोधने कुर्वन्ति ।
108 संख्‍या वस्‍तुत: ब्रह्मसूचकी संख्‍या अस्ति ।
एतया संख्‍यया अतिथि: ब्रह्मस्‍वरूपअस्ति साक्षात् ब्रह्म एव वा इति निर्दिशन्ति।
कथं इति प्रश्‍न: आगच्‍छति ।

ब्रह्म इति शब्‍दस्‍य वर्णक्रम: यदि परिगण्‍यते चेत् 108 आगच्‍छति।
पश्‍याम:
ब-23
र-27
ह-33
म-25

व्‍यंजनवर्णेषु 'ब'कारस्‍य स्‍थानं 23तम: अस्ति।
(क वर्ग=5 (क ख ग घ ड), च वर्ग=5, ट वर्ग=5, त वर्ग=5, प वर्ग=5, य र ल व ष श स ह क्ष त्र ज्ञ)
एवं विधा सर्वेषां वर्णानां क्रम: उपरोक्‍तं आगच्‍छति।
यदि यतेषां योग
क्रियते चेत्
23+27+33+25 =108 इति आगच्‍छति।

एतदर्थमेव 108 संख्‍याया: प्रयोग: ज्‍येष्‍ठानां कृते क्रियते।
एतदर्थमेव अस्‍या: संख्‍याया: प्रयोगसमये योग्‍यं अयोग्‍यं वा इति अवधानं देयम् इति।।


एतत् तथ्‍यं कथं आसीत् इति अस्मिन् विषये भवतां वैचारिकसहयोग: अपेक्षते।
आशामहे यत् भवतां टिप्‍पणय: अवश्‍यमेव प्राप्‍स्‍ये।

यदि कश्चित् त्रुटि: प्राप्‍यन्‍ते भवन्‍त: अत्र चेत् कृपया इंगीकुर्वन्‍तु।

पुनस्‍च एवमेव काचित् नूतनी सूचना अग्रिम लेखे प्रकाशयिष्‍यामि।
तावत् पर्यन्‍तं नमो नम: ।

भवतां विचाराणां स्‍वागतम्
भवदीय:- आनन्‍द:

2 comments

  1. भो आनन्द महाशय!
    तव प्रशंसापूर्ण टिप्पणीकर्मस्य आभारस्वरूपे अहम् तु अस्मिन ब्लॉगे आगतोऽस्मि। तव संस्कृतनिष्ठा अतीव प्रशंसनीया वन्दनीया च। अतएव नमस्करोमि, वन्दे च।
    संस्कृत सम्भाषणे नि:शुल्क सेवा यत्त्वया घोषिताऽपि प्रशंसनीयाऽस्ति।
    भवदीय शुभेच्छु,
    हिमान्शु मोहन

     
  2. ana Says:
  3. अति उत्तम

     

Post a Comment

check this

Subscribe via email

Search