एकदा एक: युवक: एकस्मिन् विपणीं (दुकान में) गत: ।
स: क्रेतां (दुकानदार) प्रति एकचसक (ग्लास) सूप: (जूस) दातुम् उक्तवान् ।
यदा क्रेता तं एकचसक सूप: दत्तवान् तदा स: सूपं पीत्वा 'एकं इतोपि ददातु कलह: जायमान: (झगडा होने वाला) अस्ति' इति उक्तवान ।
एकं इतोपि पीत्वा स: तथैव पुन: उक्तवान यत् एकं इतोपि ददातु कलह: जायमान: अस्ति ।
एतत् श्रुत्वा क्रोधेन क्रेता उक्तवान यत् कदा केन वा सह कलह: जायमान: अस्ति ।
स: उत्तरं दत्तवान यत् भवता सह भविष्यति यदा भवान धनस्य कृते वदिष्यति तर्हि ।।
हाहा हाहा
अत्र मया दीयते एकं जालपुटसंकेतं (नेटलिंक) यत्र भवन्त: हिन्दी भाषायां टंकणं (टाइप) कर्तुं एकं साफ्टवेयर प्राप्स्यन्ति ।
एतत् अस्ति बहूपयोगी (टाइपिंग ट्यूटर) इति नाम्नी साफ्टवेयर
स्वीकर्तुम् अत्र बलाघात: करणीय:
एकदा चत्वार: जना: कुत्रचित् एकं लघुआयोजनं (पार्टी) कर्तुं गतवन्त: ।
ते आपणत: (दुकान) चत्वार: त्रिकोणपिष्टकं (समोसा) स्वीकृतवन्त: ।
यदा ते आनन्दायोजनं कर्तुम् उद्युक्ता: आसन् तेषां स्मरणम् आगतम् यत् ते इदानीं पर्यन्तं शीतपेयं (पेप्सी इत्यादि) न स्वीकृतवन्त: ।
ते विचारितवन्त: यत् तेषु कश्चित् पुन: विपणीं (बाजार) गत्वा शीतलपेयं स्वीकुर्यात् ।
तेषु एक: गन्तुं स्वीकृति: दत्तवान ।
किन्तु यदा पर्यन्तम् अहं न आगच्छानि तदा पर्यन्तं कोपि एकमपि पिष्टकं न भुंजेत (खाये) इति स: अवदत् ।
सर्वे अंगीकृतवन्त: (स्वीकार किया)
स: गत: ।
एक: दिवस: गत:, स: न आगतवान ।
द्वितीय: दिवस: गत:, पुनरपि स: न आगतवान ।
सर्वे विचारितवन्त: यत् सम्भवत: स: विस्मृतवान शीतलपेयं आनेतुम् अत: इदानीं वयं स्व-स्व पिष्टकं भुंजेयम (खायें) ।
अत: तृतीये दिवसे ते पिष्टकं भोक्तुम् उद्यता: अभवन ।
यदैव जैसे ही ते पिष्टकं हस्ते स्वीकृतवन्त: चतुर्थ: वृक्षस्य पृष्ठत: (पेड के पीछे से) बहि: आगत: उक्त: च
यदि भवन्त: पिष्टकं खादिस्यन्ति चेत् अहं शीतलपेयं आनेतुं न गच्छामि ।।
अद्य ब्लागजगति अटनं कुर्वन अहं एकं ब्लाग दृष्टवान । तस्य ब्लागलेखक: लैटिनभाषात: प्रेरित: दृष्यते ।
स: वैदिक-लौकिकं चापि उभौ संस्कृतौ लैटिन भाषात: उद्भूत: मन्यते ।
स: श्रीमद्भगवद्गीताग्रन्थस्य विषये वदति यत् निष्काम कर्म इति किमपि नास्ति प्रतिपादितविषया: गीताया: ।
तस्य ब्लागस्य नाम शास्त्र शब्द व्याख्या इति अस्ति ।
अत्र भवन्त: सर्वा: शब्दा: प्राप्स्यन्ते । संस्कृतत: प्रेम पर्यन्तं सर्वेषां शब्दानां व्याख्या तत्र लैटिन भाषाया: शब्दै: दत्त: अस्ति ।
एष: महोदय: सम्भवत: न जानाति यत् विश्वस्य प्राचीनतम: ग्रन्थ: वेद अस्ति तथा वेद संस्कृतभाषायां विद्यते ।
साम्प्रतं स: कश्चित् अपि लैटिन ग्रन्थस्य नाम वदेत यत् वेदग्रन्थात् अपि प्राचीन: स्यात् ।
मम आग्रह: अस्ति भवतां सर्वेषां प्रति यत् कृपया अस्य ब्लागकर्तु: मस्तिष्कविकारस्य स्वच्छताकार्यं कुर्यु: ।
भवन्त: अत्र गत्वा संस्कृतभाषाया: प्राचीनतासम्पादकतथ्यानां सम्पादनं कृत्वा तस्य मुखपिधानं कुर्वन्तु ।
।। जयतु संस्कृतम् ।। जयतु भारतम् ।।
अद्य भवतां सम्मुखे कानिचन चित्राणि प्रस्तुतोमि ।
एतानि चित्राणि पवित्रश्रृंगीऋषि स्थानस्य पार्श्वे प्रवाहितस्य सरयूतटस्य सन्ति । प्रपरह्य: आरभ्य अद्य पर्यन्तं मया एतेषां संकलनं मम नोकिया एन73 जंगमभाषात् स्वीकृतमस्ति ।
अत्र पुन: सन्ति कानिचन दैनिक वाक्यानि , आशामहे यत् भवन्त: पूर्वतनानां अभ्यास: कृतवन्त: स्यु: । पूर्वतनानां अभ्यास: कर्तुम् अत्र लिंक दत्तम् अस्ति ।
सामान्यजीवने प्रयोगाय कानिचन् दैनिकवाक्यानि-प्रथम: अभ्यास:
सामान्यजीवने प्रयोगाय कानिचन् दैनिकवाक्यानि- द्वितीय: अभ्यास:
कार्यक्रम: कदा ? कार्यक्रम कब है ?
अद्य न , स्व: आज नहीं कल (आने वाला)
तद् ह्य: एव समाप्तम् वह कल (बीता हुआ) ही समाप्त हुआ ।
इदानीम् एव ? अभी ?
आम्, हाँ
प्राप्तं किम् ? मिला क्या ?
कस्मिन् समये ? कितने बजे ?
पंच (वादने) पांच (बजे)
आवश्यकं न आसीत् नहीं चाहिये था ।
महान् आनन्द: बहुत अच्छा, बहुत खुशी की बात है
प्रयत्नं करोमि प्रयास करूंगा\करूंगी
न शक्यते भो: नहीं हो सकता
तथा न वदतु ऐसा मत कहिये
कदा ददाति ? कब दोगे ?
अहं किं करोमि ? मैं क्या करूँ ?
ऐते सन्ति केचन् दैनिक शब्दा: वाक्यानि च
क्रमश:,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
ब्लागजगति केचन् अवकरा:1 सन्ति ये केवलं हिन्दुधर्मस्योपरि आघात: कुर्वन्त: सन्ति । तेषां दुराग्रह: अस्ति यत् हिन्दुधर्म: नास्ति विशिष्ट: अन्येषाम् अपेक्षा ।
अद्य ब्लागजगति अटनं कुर्वन्2 अहं एकं ब्लाग उपरि गतवान् तत्र लिखितमासीत् यत् ईश्वर: अल्ला च एके न स्त: । तौ द्वौ स्त:, तत्रैव पुन: लिखितमासीत् यत् अल्लोपनिषद् मध्ये अल्ला श्रेष्ठ: अस्ति इति अपि उक्तमस्ति ।
तस्य नाम अहं अत्र स्वीकर्तुं न इच्छामि , एतदर्थ न यत् अहं विभेयम्3 अपितु तादृशजनानां नाम स्वीकर्तुं मम मन: एव न इच्छति ।
स: मत्त: न जानाति यत् यदा कस्यचित् अपि धर्मस्य अस्तित्वम् अपि नासीत् तदा संस्कृते ग्रन्थानां प्रणयनं जातमासीत् ।
स: इत्यपि न जानाति यत् अल्ला शब्दस्य उत्पत्ति: अपि संस्कृत भाषात् एव अभवत् ।
अल्ला इत्यस्य निर्माणं अद् धातुना सह् अणादि प्रत्ययस्य योगं भूत्वा निर्मित: ।
अस्य अर्थ: माता भवति ।
मम पन्थाह्वानम्4 अस्ति यत् स: मुगल: अद्य पर्यन्तं अपि अल्ला इति शब्दस्य अर्थ: न जानीयात्5 । केवलं रटनमेव नास्ति पर्याप्तम् । ज्ञानमपि भवेत् ।
खेदस्य विषय: तु एष: यत् तस्य प्रमत्तस्य पाठकानां संख्या प्रतिदिनं वर्धते । वयं एव तस्य पाठका: भवाम: ।
तस्य तु सामूहिक बहिष्कार: करणीय: , तस्य ब्लागपाठकानां संख्या समाप्ता भवेत् । वयं सर्वे संकल्पं स्वीकुर्याम्6 यत् तस्य ब्लाग नैव पठनीय: । स: किमपि लिखेत् तत्र अवधानम्7 एव न देयम् । शनै:- शनै: स: स्वयमेव शान्तं भविष्यति ।
मम करबद्ध अनुरोध: अस्ति भवतां सर्वेषां प्रति, आशामहे यत् भवन्त: स्वीकरिष्यन्ति । यदि अस्माभि: हिन्दुधर्म: रक्षणीय: चेत् एतादृशानां जनानां सामूहिक बहिष्कार: भवेत् एव ।
1-कूडा, करकट 2-घूमते हुए 3-डरता हूं 4-दावा, चुनौती 5-नहीं जानता होगा 6-संकल्प लें 7-ध्यान ।।
अद्य दूरदर्शने एकं समाचारं दृष्टवान ।
एष: समाचार: सचिनस्य महानताविषयक: आसीत् ।
तत्र कस्यचित् पुरातन मित्रस्य सहायतां कर्तुं धनम् अपेक्षितम्1 आसीत् यत् सचिनेन दत्तम् ।
अहं प्रायश: दृष्टवान्2 अस्मि यत् जना: यदा प्रशिद्धि: प्राप्नुवन्ति चेत् ते सर्वप्रथम स्वपुरातन मित्राणि विस्मरन्ति3 ।
यतोहि पुरातन मित्राणि अस्माकं सर्वं व्यवहारं, अस्माकं मूलं जानन्ति, अपि च तै: सह् सम्पूर्ण अतीतस्य स्मृति: भवति अत: तान विस्मृत्य4 जना: स्व भूतकालं विस्मरन्ति इति तेषां विश्वास: खलु भवति ।
आसीत् कश्चित् सचिनस्य मित्रं यस्य पाद: खंज:5, सचिन: तस्य शल्यचिकित्साकार्यार्थं 6 लक्ष रूप्यकाणि दत्तवान् ।
षड लक्ष रूप्यकाणि तु सचिनस्य कृते किमपि नास्ति किन्तु तस्य मित्रस्य सम्पूर्ण जीवनं अनेन नूतनं जातम् ।
अस्माकं समाजे अद्य सचिन सदृशस्य एव जनानां न्यूनता अस्ति ।
सत्यमेव उक्तम् अस्ति खलु महाजनो येन गत: स पन्था ।।
मैत्रीकार्यं तु सरलं किन्तु वहनं6 कठिनमेव । किन्तु ये महानजना: भवन्ति तेषां कृते किमपि कठिनं नास्ति इति अद्य सचिनेन दर्शितम् ।
तेन एषोपि सन्देश: समाजे प्रसारित: यत् महानता प्राप्तुं तदनुगुणं सारल्यं, गुणा: चापि भवेत् ।
1-आवश्यकता 2-देखा 3-भूलजाते हैं 4-भूलकर 5-विकृत, लंगडा 6-निभाना, ढोना
संस्कृतभाषायां ब्लागजगति अपि लेखनं प्रारभ्येत इति भावनया अद्य ब्याकरण कक्ष्याया: प्रथम सोपानं प्रकाश्यते । अनेन जनानां ब्याकरणज्ञानं तेन वाक्शुद्धि च भविष्यति ।
सर्वप्रथम वयं कारक, विभक्ति विषये पठाम: ।।
षट कारकाणि भवन्ति , एतेषां नामानि प्रयोगचिन्हं च अत्र दीयते
विभक्ति: कारकम् हिन्दी प्रयोगचिन्ह
प्रथमा कर्ता - ने
द्वितीया - कर्म - को
तृतीया - करण - से, के द्वारा
चतुर्थी - सम्प्रदान - के लिये
पंचमी - अपादान - से
*षष्ठी - सम्बन्ध - का, की, के
सप्तमी - अधिकरण - मे, पर
* षष्ठी विभक्ति तु अस्ति किन्तु सम्बन्धं कारकं नास्ति ।। अतएव षट् एव कारकाणि भवन्ति ।
उपरि एतेषां क्रमश: कार्यं दत्तम् अस्ति । उदाहरणं - 'राम ने' रावण को मारा - अत्र राम ने इति दर्शयति यत् राम कर्ता अस्ति । कर्ता- कृते प्रथमा विभक्ति: योज्यते अत: राम शब्दे प्रथमा विभक्ति: योजयाम: । राम इत्यस्य प्रथमा विभक्ति एकवचन - राम: इति भवति । तर्हि राम: रावणं हतवान् इति वाक्यनिर्माणं जातम् ।।
अग्रिम व्याकरण कक्ष्यायाम् इत: अग्रे पठाम: ।।
सम्पूर्ण जगत: एतत् एव प्रचलनम् अस्ति यत् जना: तत् एव इच्छन्ति यत् तान रोचते किन्तु अपरजनान किं रोचते इति कश्चित् अपि न चिन्तयति । अहं बहुधा दृष्टवान् 1 अस्मि यत् जना: स्वार्थपूर्ति: कर्तुम् एव अन्यै: सह अपि सम्बन्धं स्थापयन्ति । अनन्तरं परिणाम: किम् आगच्छति, भवान स्वयमेव ज्ञातुं शक्नोति ।
एकं उदाहरणं ददामि, चिन्तयतु यत् भवत: इच्छा अस्ति आम्रफलं भोक्तुं 2, भवत: एक: मित्रं अपि आम्रमेव भोक्तुमिच्छति किन्तु भवत: पार्श्वे एकम् एव आम्रफलमस्ति । इदानीं भवत: कर्तब्यं तु अस्ति यत् अर्धं भवान स्वीकरोतु अर्धं मित्राय ददातु, किन्तु अद्य जना: किं कुर्वन्ति । ते सम्पूर्णं स्वयम् एव भुंक्ते 3 , मित्राय किमपि न त्यजन्ति 4 । अस्य परिणाम: किम् आगच्छति, भवत: मित्रस्य मनसि 5 अपि एष: एव भाव: आगच्छति ।
अद्य अस्माकं राजनीतिका: एवमेव कुर्वन्ति । ते सर्वं स्वयं स्वीकर्तुम् इच्छन्ति, किंचिदपि 6 अपरस्य 7 कृते त्यक्तुं न इच्छन्ति । एतदर्थम् एव अस्माकं भारतदेश: इदानीं सर्वाधिक भ्रष्ट देशानां सूच्यां परिगण्यते 8 । भवन्त: चिन्तयन्ति यत् अत्र वयं किं कर्तुं शक्नुम: । चेत् मम एक: एव सन्देश:, स्वाधिकारस्य उचित प्रयोग: क्रियेत् । भ्रष्टनेतारा: सर्वता: त्यक्तब्या: 9 । इति एव मम अनुरोध: यत् स्व देशस्य कृते स्व अमूल्य मतानां उपयोग: करणीय: । योग्यानां कृते एव स्वमतं दद्यु: 10 ।।
शब्दार्थ: - 1-देखा ,2- खाने के लिये, 3-खाते हैं, 4-छोडते हैं, 5-मन में, 6-थोडा सा भी, 7-औरों के, 8-गिनते हैं, 9-त्याग देना चाहिये, 10- देना चाहिये ।।
आशामहे यत् भवतां सौकर्यं भविष्यति लाभ: चापि ।।
।। जयतु भारतम् ।। जयतु संस्कृतम् ।।
केचन दिवसा: गता: कश्चित महोदय: मत्त: एक: प्रश्न: पृष्टवानासीत् यत् यदि श्रृष्टे: प्रथम: मानव: मनु-सतरूपा इति उभौ आस्ताम् । तेषामेव सन्तति: वयं मानवा: । तर्हि किं मनु द्वारा एव उत्पन्ना: पुत्रा: , पुत्रय: च परस्परं विवाह: कृत्वा सन्तानोत्पत्ति: कृतवन्त: । यदि कृतवन्त: चेत् भ्राता-भगिनि परम्पराया: निर्वहनं कथं अभवत । यदि न कृतवन्त: चेत् श्रृष्टे: विकास: अथवा अत्र मानवानां जनसंख्या वृद्धि: कथं जातम्।
अस्य उत्तरदानस्य पूर्वम् अहम् एकं वार्तां वक्तुम् इच्छामि यत् पूर्वं तु सम्पूर्ण श्रृष्टि परम्पराया: ज्ञानानन्तरम् एव यदि कश्चित् एष: प्रश्न: कुर्यात चेत उत्तम । अत्र अहं तत् समाधानं ददामि ।
वयं अस्माकं जगत: उत्पत्ति: कथम् इति पश्याम: ।।-
विष्णुपुराण अपि च भागवतपुराण अनुसारेण पूर्वं केवलं एक: एव आदिपुरूष: आसीत् । स: सूक्ष्मरूपं त्यक्त्वा स्थूल रूपं स्वीकृतवान्। तस्य स्थूलरूप: विष्णु इति अभवत । स: स्वनाभित: एकं कमलपुष्पम् उद्भूतवान् । तत्र पितामह ब्रह्म प्रकटितवान् । ब्रह्मात: पूर्वम् एव वेदानां उत्पत्ति: जात: । श्री विष्णु: सूक्ष्मरूपेण सम्पूर्णं वेदज्ञानं ब्रह्मण: मस्तिष्के आरोपितवान् । ज्ञानं प्राप्य ब्रह्मा तप : आरब्धवान् । काला: गता: , भगवान विष्णु आगत्य ब्रह्मां आदेशं दत्तवान यत् संकल्पेन सृष्टि आरम्भं करोतु । ब्रह्मा तथैव कृतवान् । तेन सर्वप्रथम एक: रूदित:बालक: प्रकटित: । स: रोदनं करोति स्म अतएव तस्य नाम रूद्र इति अभवत् । पुनश्च बहुविधा: महर्षय:, देवादया: उत्पादिता: । अस्मिन् क्रमे एव मनु-सतरूपा इत्ययो: अपि प्रकटनं जातं । ते सर्वप्रथम: मानवा: आसन् । तेषां कार्यं वंशवृद्धि इति आसीत् ।
अत्रैव जनानां भ्रम: भवति यत् पूर्वं तु मनु-सतरूपा उभौ अपि ब्रह्मात: एव उत्पन्न: चेत् तयो: परस्पर सम्बन्ध: भ्राता-भगिनि इति अभवत् चेत् उभयो: विवाह: कथं जात: ।
अस्य उत्तरम् अस्ति यत् प्रत्येकस्य शरीरे भागद्वयं इति मन्यते । एकं तु पुरूषभाग:, अपरं स्त्रीभाग: । पितामह ब्रह्म स्व दक्षिणभागात् मनु तथा वामभागात सतरूपाया: उत्पत्ति: कृतवान्। एवं वा वक्तुं शक्नुम: यत स्वयं पितामह एव स्वकं द्वौ भागौ विभक्तवान् । अस्मिन् क्रमेण मनु-सतरूपा मध्ये भ्राता-भगिनि सम्बन्धस्य निराकरणं जातं । इत: अनन्तरं मानवानां वंशपरम्परा विषये अग्रिम लेखे चर्चयाम: ।
उपरोक्तेषु यदि कापि शंका अस्ति चेत् अत्र ईमेल (pandey.aaanand@gmail.com) माध्यमेन सूचयन्तु । समाधान अग्रिम लेखे प्रकाशयिष्याम: ।
।। जयतु संस्कृतम् । जयतु भारतम् ।।
अहं अति पुनीत कार्यं मत्वा अस्य संस्कृत ब्लाग इत्यस्य आरम्भ: कृतवान्। मम आशा आसीत यत् जना: प्रेरिता: भविष्यन्ति अनन्तरं संस्कृत लेखनस्य आरम्भ: ब्लागजगति अपि भविष्यति किन्तु मम स: स्वप्न: इदानीं मिथ्या प्रतीयते । इदानीं अहं चिन्तयामि यत् किं मम निर्णय: सम्यक न आसीत किल । संस्कृत मातु: सेवार्थं उत्थापितं मम सोपानक्रम: कि अत्रैव समाप्स्यते ।
किन्तु इदानीं साक्षात् मनसि पुन: आयाति यत् देवकार्यम् अयम् ।
अत: अहं एतत् कार्य न त्यजामि । कथमपि न त्यक्षामि । पुनश्च कश्चित् अपि न पठेत चेदपि संस्कृत लेखनं तथैव करिष्यामि । भगवत: कार्यं अयं स: भगवत: एव साधयिष्यति ।
।। जयतु संस्कृतम् । जयतु भारतम् ।।
मनसा सततं स्मरणीयम्
वचसा सततं वदनीयम् ।।
लोकहितं मम करणीयम् ।।
न भोगभवने रमणीयम्
न च सुखशयने शयनीयम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ।।
न जातु दु:खं गणनीयम्
न च निजसौख्यं मननीयम्
कार्यक्षेत्रे त्वरणीयम्
लोकहितं मम करणीयम् ।।
दु:खसागरे तरणीयम्
कष्टपर्वते चरणीयम्
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ।।
गहनारण्ये घनान्धकारे
बन्धुजना ये स्थिता गह्वरे
तत्र मया संचरणीयम्
लोकहितं मम करणीयम्
।। हिन्दी भाषायां पठितुं अत्र बलाघात: करणीय: ।।
सनातन धर्मस्य प्राणवत्, विश्वस्य महानतम: आदिग्रन्थ: ''वेद'' न केवलं हिन्दुधर्मस्य अपितु सर्वेषां धर्माणां मूलम् अस्ति । ''वेदोखिलो धर्ममूलम्'' अर्थात् समेषां धर्माणां उत्पत्ति: अनेन एव अभवत् इति ।
अद्य अस्मिन् लेखे अहं वेदानां विषये केचन महत्वपूर्ण तथ्यानां उद्घाटनं करोमि । एते विषया: ते सर्वे ज्ञायेयु: ये धर्मविषये जिज्ञासमाना: सन्ति, इत्यपि उक्तमेव अस्ति- ''धर्मजिज्ञासमानानां प्रमाणं परमं श्रुति:'' ।
वस्तुत: वेदानां प्रादुर्भाव: श्रृष्ट्यारम्भे एव अभवत किन्तु केचन् पाश्चात्यीयानां दुराग्रहकारणात् एव अस्माकं विद्वान्स: अपि वेदानां रचनाकालं केवलं विगत चतुर्पंच सहस्र वर्षाणि एव मन्यन्ते । ते अवधानं न ददति यत् वेदानां परम्परा अपि वर्णिता अस्ति । अनेन क्रमेण ईश्वरेण ब्रह्मा, तेन वशिष्ठ अपि च अनेनेव क्रमेण शक्ति, पराशर , द्वैपायन: च वेदानां ज्ञानं प्राप्तवान् । वेदानां विस्तारकारणात् एव तस्य नाम वेदव्यास: इति अभवत ।
वेदेषु प्राचीनतम: ऋग्वेद: अस्ति । इत्यपि प्राप्यते यत् सर्वप्रथम: केवलं ऋग्वेद: एव आसीत् , पठन-पाठनसारल्यहेतु: एव द्वैपायन: अस्य विस्तारं चतुर्षु वेदेषु कृतवान अत: तस्य नाम व्यास इति अभवत् । अत्र अहं ऋग्वेद विषये कानिचन् महत्तत्वानां उद्घाटनं करोमि । विज्ञा: स्वविचारान अवश्य दद्यु: ।
- महाभाष्य (पश्पसाह्निक) अनुसारं ऋग्वेदस्य एकविंशति: (21) शाखा: आसन् । एताषु शाखासु चरणव्यूह ग्रन्थानुसारं पंच (5) शाखा: (शाकल, बाश्कल, आश्वलायन, शांखायन, माण्डूकायन) मुख्या: सन्ति । यासु साम्प्रतं केवलं शाकल शाखा एव प्राप्यते ।
- ऋग्वेदस्य (शाकल शाखा) विभाजनं द्विधा, अष्टक क्रमेण, मण्डल क्रमेण च कृतं अस्ति ।
- अष्टक क्रमे , अष्ट अष्टकेषु अष्ट-2 अध्याया: , प्रत्येकस्मिन् अध्याये केचन् वर्गा: , प्रत्येकवर्गे केचन ऋचा: सन्ति । अनेन क्रमेण सम्पूर्ण 2006 वर्गा: 10417 ऋचा: च सन्ति । शौनकाचार्यस्य अनुक्रमण्यां अस्य पूर्णसंख्या 10580-1/4 इति अस्ति । ''ऋचां दशसहस्राणि ऋचां पंचशतानि च, ऋचामशीति: पादश्च पारणं सम्प्रकीर्तितम्'' ।
- मण्डल क्रम: अतिप्रचलित: अस्ति । एतस्यानुसारं ऋग्वेद: दश मण्डलेषु विभक्त: अस्ति । प्रत्येकेषु मण्डलेषु विभिन्न अनुवाका: , तेषु कानिचन् सूक्तानि, प्रत्येकेषु सूक्तेषु केचन् मन्त्रा: सन्ति । औसतसंख्या पंच अस्ति । एवं विधा सम्पूर्णं 1028 सूक्तानि सन्ति येषु 11 खिल सूक्तानि सन्ति ।
- प्रथम मण्डलस्य द्रष्टार: शतार्चिननामधारिण: सन्ति ।
- 2 त: 8 पर्यन्तं वंशमण्डल इति संज्ञया अभिहिता: ।
- नवम मण्डलं सोम, पवमान मण्डलं वा कथ्यते । अस्य मण्डलस्य सर्वाणि सूक्तानि सोम देवं समर्पितमस्ति ।
- दशम मण्डलस्य नासदीय सूक्तपर्यन्तं सूक्तानि महासूक्तानि, अनन्तरं क्षुद्रसूक्तानि इति अथ च एतेषां द्रष्टार: अपि एतया संज्ञया एव अभिहिता: ।
- ऋग्वेदस्य प्रधानदेव: इन्द्र: अस्ति । अस्य 250 सम्पूर्णसूक्तेषु अपि च अन्येषु आंशिकरूपेण अर्चना कृता अस्ति ।
- ऋग्वेदे समस्तमण्डलानां प्रारम्भिकसूक्तानि अग्निं समर्पितमस्ति । अग्नि: ऋग्वेदस्य द्वितीय: प्रधानदेव: अस्ति । अस्य 200 सम्पूर्ण सूक्तेषु अन्यत्र च आंशिक रूपेण अर्चना कृतास्ति ।
- ऋग्वेदस्य रक्षार्थं, अपरिवर्तनीयं भूयात् अत: अपि सूक्तानां शब्दानाम् अपि गणना कृतास्ति । शौनकानुक्रमणी मध्ये एषा संख्या 153826 अस्ति । ''शाकल्यदृष्टे: पदलक्षमेकं सार्धं च वेदे त्रिसहसयुक्तम् , शतानि चाष्टौ दशकद्वयं च पदानि षट् चेति हि चर्चितानि ।'' (अनुक्रमणी 45)
- शब्दानां एव न अपितु वर्णानाम् अपि गणना कृता अस्ति । अनुक्रमणी अनुसारं एषा संख्या 432000 अस्ति । ''वृहतीसहस्राण्येतावत्यो हर्चो या: प्रजापति सृष्टा:'' (शत0 ब्रा0-10,4,2,23), ''चत्वारिंशतसहस्राणि द्वात्रिंशच्चाक्षरसहस्राणि'' - (शौनक-वाकानुक्रमणी)
- ऋग्वेदस्य प्रथम अध्यापनं वेदव्यास: स्वशिष्यं पैलं प्रति कृतवान् । ''तत्रगर्वेदधर: पैल:'' ।
- ऋग्वेदस्य दशममण्डलस्य ऋषय: एव तस्य देवतार: अपि सन्ति ।
- मन्त्राणां दर्शने महिलानाम् अपि सहयोग: अस्ति । तासु अगस्त्यपत्नी लोपामुद्रा, महर्षि अम्भृणपुत्री वाक् इत्ययो: नाम विशेष उल्लेखनीय: अस्ति ।
एवंविधा ऋग्वेदविषये अत्र दत्त: सन्ति केचन् महद्विषया: । पाठकानां विचाराणां स्वागतमस्ति ।
।। जयतु वेदान् । जयतु भारतम् ।।
हिन्दी भाषायां पठितुं अत्र बलाघात: करणीय:।।
किंचित कालपूर्वम् एव भारतस्य चन्द्रयानेन् प्रमाणितं यत् चन्द्रे जलम् अस्ति एव। इत: पूर्वं नासावैज्ञानिका: एतस्य अन्वेषणं बहु वारं कृतवन्त: किन्तु चन्द्रे जलम् अस्ति इत्येतस्मिन् विषये ते किमपि वक्तुं न शक्तवन्त: । अस्य विषयस्य अन्वेषणं कर्तुं भारतदेश: चन्द्रयानम् इति कश्चन् गगननौका प्रेषितवान् तथा सप्रमाणेन् चन्द्रे जलम् अस्ति इति रहस्योद्घाटनं कृतवान् ।
य: विषय: अद्य नूतन वैज्ञानिकै: उद्धृत: प्रमाणित: च स: विषय: अस्माकं भारतस्य एव खगोलविद: सहस्राधिकेभ्य: वर्षेभ्य: (6तमे शताब्दे:) पूर्वम् एव स्वग्रन्थे लिखितवान् आसीत्।
तदा गगनस्य अटनं कर्तुं गगननौका: न आसन्, नैव कश्चित् अन्यं साधनम् एव आसीत् अस्य विषयस्य ज्ञानं कर्तुम्। किन्तु तदा यत् वचनं प्रमाणितं तद् वचनम् अद्य आगत्य सर्वै: स्वीकृतम्।
प्रशिद्ध: भारतीय: खगोलविद: वाराहमिहिर: चन्द्रे प्रकाशस्योत्पत्ति: कथम् इति कथयन् वदति-
''सलिलमये शशिनि खेर्दीधितयो मूर्च्छिता तमो नैश्यम्।
क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्त:।।'' इति- (बृहत्संहिता-4)
चन्द्रे यत् जलमयत्वं दृश्यते तस्मात् एव सूर्यकिरणस्य प्रतिफलनं कौमुद्या: च उत्पत्ति: भवति इति तस्य कथनस्य सार:।।
1030तमे वर्षे अल्बरूनि: नाम खगोलशास्त्रज्ञ: भारतम् आगत्य अत्रत्यान् विचारान् ज्ञात्वा स्वीये ''ऐहिक् म लिल् हिन्दु'' इत्येतस्मिन् महाग्रन्थे वराहमिहिरादिभि: उक्तं सर्वं संगृहीतवान् अस्ति।
तत्र स: लिखति- जलांशकारणत: एव चन्द्रे शीतलता परिदृश्यते, सूर्यकिरणा: चन्द्रतले प्रतिफलनं प्राप्य प्रकाशन्ते इति वराहमिहिर: बृहत्संहितायाम् उक्तवान् अस्ति इति। (अल्बेरूनीस् इण्डिया, अनुवाद:- एड्कर्ससच्यौ पृष्ठसंख्या -370)
प्राचीनकाले वैज्ञानिकसाधनानि, अन्यग्रहं प्रति प्रयाणं वा असम्भवम् आसीत् तथापि पूर्वजै: ऋषिभि: सूर्यचन्द्रादीनां गतिस्वरूपादय: निर्दुष्टतया उक्ता: सन्ति। तै: उक्तेन क्रमेण या गणना क्रियते तदनुगुणम् एव सूर्य-चन्द्रादीनाम् उदय-अस्तादय: अद्यापि भवन्ति, इत्यत: स्पष्टं यत् तेषां कथने वैज्ञानिकता अस्ति एव इति।
एवं विधा बहूनां सिद्धान्तानां प्रतिपादनं अस्माकं मनीषिभि: पूर्वं एव कृतं आसीत्।
साम्प्रतं ये वदन्ति यत् भारते किमपि नास्ति अथवा भारतदेश: अन्यदेशानाम् अनुशरणं करोति तेषां मुखपिधानं कर्तुं अस्माभि: अस्माकं ग्रन्थानां गहनाध्ययनम् आवश्यकम् एव इति।
अत: एतेषां तथ्यानां संकलनं सर्वै: अपि करणीयम् ।।
अस्माकं संस्कृति: अस्माभि: एव रक्षणीया।।
।।जयतु भारतम्, जयतु संस्कृतम्।।
सम्भाषण सन्देश पुस्तकात् साभार गृहीत:
भवदीय:- आनन्द:
सर्वे भारतीयानां प्रति मम एकं निवेदनं अस्ति । यदि भवन्त: स्वीकरिष्यन्ति चेत् न केवलं संस्कृतस्य अपितु सम्पूर्ण भारतस्य, भारतीय संस्कृते: च कल्याणाय एव भविष्यति।
आगामी जनगणनायां सर्वे संस्कृतज्ञा: कृपया स्व मातृभाषास्थाने संस्कृतम् एव लिखेयु: तथा ये स्वकीयं अल्पसंस्कृतविज्ञ: इति मन्यन्ते तेषां प्रति मम कथनं अस्ति यत् वयं सर्वे दैनिक जीवने कस्याचित् अपि भाषाया: वाचने संस्कृत शब्दानां प्रयोग: कुर्म: एव । न केवल भारतीय भाषासु अपितु वैदेशिकभाषासु अपि संस्कृतस्य शब्दा न्यूनाधिका: गृहीता: एव सन्ति यथा आग्लभाषाया: गो शब्द:- इत्यस्य अर्थ: गमनं इति भवति खलु । गो इत्यस्य संस्कृत व्युत्पत्ति: गच्छति इति गो इति अस्ति ।
अत: यदि वयं संस्कृतम् इति अस्माकं मातृ अथवा द्वितीय भाषा इति लिखाम: चेत् न कापि हानि: अपितु लाभाय एव ।
अत्र मम किमपि दुराग्रह: नास्ति अपितु अहं केवलं अस्माकं भारतस्य, भारतीयसंस्कृते: च विषये एव चिन्तयन् एवं निर्दिशामि ।
मम आशय: केवलं एष: एव यत् यत् सम्मानं वयं विदेशी भाषानां कृते दद्म: तत् सम्मानं अस्माकं भारतीय भाषाम् एव मिलेत इति ।
संस्कृत भाषा अस्माकं जननी चेत् यदि वयं अस्या: संरक्षणं न कुर्म: तर्हि अस्माकं दौर्भाग्यं एव ।
भवन्त: सर्वे मम निवेदनं स्वीकरिष्यन्ति इति आशामहे ।
।। भवतां आभार:।।
हिन्दी भाषायां पठितुम् अत्र आघात: क्रियेत ।
सुरस सुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया
अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ।।
कविकुलगुरू वाल्मीकि विरचिता रामायण रमणीय कथा
अतीवसरला मधुर मंजुला नैव क्ल्ष्टिा न च कठिना ।।
व्यास विरचिता गणेश लिखिता महाभारत पुण्य कथा
कौरव पाण्डव संगर मथिता नैव क्लिष्टा न च कठिना ।।
कुरूक्षेत्र समरांगणगीता विश्ववंदिता भगवद्गीता
अतीव मधुरा कर्मदीपिका नैव क्लिष्टा न च कठिना ।।
कवि कुलगुरू नव रसोन्मेषजा ऋतु रघु कुमार कविता
विक्रम शाकुन्तल मालविका नैव क्लिष्टा न च कठिना ।।
''गेय संस्कृतम्'' पुस्तकात् साभार ग्रहीत:
कदाचित् सम्पूर्ण विश्वस्य सिरमौरवत् भारतवर्षस्य अद्य का गति: अस्ति इति वयं सम्यकतया जानिम:।
अस्माकं भारत: सुवर्णखग इति आसीत खलु किन्तु अद्य न सा स्थिति: नैव सा सम्पन्नता इति विचारणीय: विषय:।
अस्य भारतस्य क्रोडे आगन्तुं देवा: अपि उत्सुका: भवन्ति। देवा अस्य देशस्य महिमागानम् कुर्वन्ति।
गायन्ति देवा: किल गीतकानि धन्यास्तु ते भारतभूमिभागे
स्वर्गापवर्गास्पदमार्गभूते भवन्तु भूय: पुरूष: सुरत्वात्।।
इति विष्णु पुराणे निगदितम्
चेत् अद्य किमर्थं अस्माकं दुर्गति:जायमाना अस्ति इति सोचनीय:।।
कानिचन् कारणानि सन्ति यत् अस्माकं प्रगति: दुर्गते: परिवर्तिता भवति।
प्रथम: तु अस्माकं परस्पर द्वेषभावना ।
अद्य पर्यन्तं अस्माकं मन: विश्वबन्धुत्वं इति भावनया न प्रचोदित:।
वयं अद्यापि मनसा विभिन्नधर्मावलम्विन: न तु मानवता इति एकस्य एव धर्मस्य पोषका:।
वयं अद्य पर्यन्तं हिन्दव:, मुस्लिमा: न तु केवलं भारतीया: इति
एतदर्थमेव अद्य अस्माकं ऐक्यसम्बन्ध: क्षीयते न तु वर्धते।
द्वितीयं इदं यत् अद्य अस्मासु केचन मूर्ख-पण्डिता: ये केवलं ग्रन्थानां समालोचनायां स्व आत्मतुष्टि: प्राप्यन्ते।
तान अहं मूर्ख-पण्डिता: इति किमर्थं उक्तवान।
यतोहि वास्तविकरूपेण ते विद्वान्स:, तेषां विभिन्न दिशायां गति: अस्ति अत: ते पण्डिता:
किन्तु ते स्व विद्वता केवलं परेषां पादोकर्षणे एव प्रयोजयन्ति अत: ते मूर्खा:।
वयं सर्वे एकीभूतं भवितुं शक्नुम: किन्तु तदर्थं अस्माकं आग्रह:, अस्माकं मन: , अस्माकं विचारा: समाना: भवेयु:।
वेद: अपि उच्यते
समानी व आकूति: समानानि हृदयानि व:।
प्रत्येकस्य मनुष्यस्य स्वधर्मे आस्था स्वाभाविकमेव
पुनश्च स्वग्रन्थानां प्रति अपि तस्य सम्मानभावना भवति एव
अत: यदा कश्चित् अन्य: तस्या: भावनाया: उपरि कुठाराघात: करोति चेत् स: मनुष्य: मनसा खिन्न: भवति अत: स: अपि कटुप्रत्युत्तरं ददाति।
एवं विधा शब्दयुद्ध: आरभ्यते।
साम्प्रतं चिट्ठाजगति एष: एव शब्दयुद्ध: जायमान: अस्ति
केचन चिट्ठाधीश्वरा: स्व विद्वताया: , शक्ते: च प्रयोग: केवलं परेषां अपमानं कर्तुम् एव सिद्धा: सन्ति।
अत: मम अनुरोध: अस्ति यत् भवन्त: सर्वे मिलित्वा तेषां तिरस्कार: कुर्वन्तु तेन सम्भवत: तेषां मनोविकाराणां प्रशमनं भवेत्।।
जयतु भारतम् , जयतु संस्कृतम्