अद्य 2010 तमस्‍य वर्षस्‍य अंतिम: दिवस: अस्ति । रात्रि 12 वादनानंतरम् एव नूतनवर्षस्‍य शुभारम्‍भ: भविष्‍यति । भवतां सर्वेषां कृत एतत् नूतनवर्षं शुभं भवतु ।

संस्‍कृतम्-भारतस्‍य जीवनम् पृष्‍ठसंकलकस्‍य अधिकारीणां सदस्‍यानां कृते च अस्‍य नूतन आंग्‍लवर्षस्‍य शुभाषया: । संस्‍कृतजगत् भवतां सर्वेषां जालप्रयोक्‍तानां प्रति शुभकामना: ददाति ।

नववर्षं मंगलमयं भवतु



अद्य 2010 वर्षस्‍य अंतिम-दिवस: अस्ति आंग्‍लपरंपरानुसारेण ।  अद्य रात्रौ एव द्वादश-वादन आरभ्‍य एव 2011 तमस्‍य वर्षस्‍य शुभारम्‍भ: भविष्‍यति  ।  वर्ष 2010 उपरमिष्‍यति ।  वयं सर्वे मिलित्‍वा मोदं करिष्‍याम:  ।  प्रात: पर्यन्‍तं आयोजनानि भविष्‍यन्ति  ।।
          स्‍व: आरभ्‍य पुन: ते एव सर्वे कार्यक्रमा:, तानि एव पुरातनानि कार्याणि  ।  नूतनवर्षम् अपि पुरातनसदृशम् एव गमिष्‍यति पुन: अग्रिमनूतनवर्षम्  ।  एवमेव वर्षाणि आगच्‍छन्ति गच्‍छन्ति च  ।  अस्‍माकं जीवनमं एवमेव गच्‍छति  ।  कदाचित् अपि वयं पुरातनवर्षस्‍य विषये न चिन्‍तयाम:  । 
          अवधानं भवेत् अस्मिन् विषये यत् वर्तमाने जीवतु , भविष्‍यस्‍य विषये चिन्‍तयतु किन्‍तु भूतकालस्‍य गतानां दिवसानां विस्‍मरणं कदापि न भवेत्  ।  यदि वयम् अस्‍माकं पूर्वकृतानां कार्याणां विषये वारं वारं चिन्‍तयाम: चेत् भविष्‍ये बहु किमपि नूतनं कर्तुं शक्‍नुम:  ।।
          सम्‍प्रति पुरातनं वर्षं प्रति स्‍व-भावश्रद्धांजलिं समर्प्य नूतन आंग्‍लवर्षस्‍य स्‍वागतं कुर्म:  ।।




1- यदा संहरते चायं कुर्मोंगानीव सर्वश:,
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।।



2- विषया विनिवर्तन्ते निराहारस्य देहिन: 
रसवर्जं रसोप्यस्य परं दृष्टवा निवर्तते ।।



3- यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: 
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: ।।

4- तानी सर्वाणि संयम्य युक्त आसीत मत्पर: 
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ।।

5- ध्यायतो विषयां पुंस:संगस्तेषूपजायते,
संगात्संजायते काम:कामात्क्रोधो अभिजायते ।।

6- क्रोधाद्भवति सम्मोह: संमोहात्स्मृतिविभ्रम: 
स्मृति भ्रन्शात्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।।





भवन्‍त: सर्वे ह्यस्‍तनीया क्रिकेटक्रीडा तु अवश्‍यमेव दृष्‍टवन्‍त: स्‍यु:    तत्र अफ्रीकादेशस्‍य का गति: जाता इत्‍यपि सर्वेषां ज्ञाने एव भवेत्   
ह्य: क्रीडायां अफ्रीकादेशस्‍य नेता (कप्‍तान) ग्रीम स्मिथ महाभाग: श्रीसन्‍तं प्रति अभद्रतां कृतवानासीत् तस्‍य साक्षात फलं लब्‍धं तेन    अग्रिम कन्‍दुके एव स: बहि: अभवत्    तेन क्रमेण एव सर्वे प्रायश: शीघ्रं-शीघ्रं समापनं प्राप्‍तवन्‍त:    भारतेन  क्रीडायां जयं प्राप्‍य नववर्षस्‍य आरम्‍भे एव स्‍व प्रथमस्‍थानं यथावत् सुरक्षितं कृतम्  ।।


हनुमान् अंजनीसूनु: वायुपुत्रो महाबल:
रामेष्‍ठ: फाल्गुनसखा पिंगाक्षोमितविक्रम: ।

उदधिक्रमणश्‍चैव सीताशोकविनाशन:
लक्ष्‍मणप्राणदाता च दशग्रीवस्‍य दर्पहा ।।

श्री हनुमते नम:


बान्‍धवा: राष्‍ट्रीय पात्रता परीक्षा (नेट) 26 दिनांके अस्मिन् दिसम्‍बर मासे एव अस्ति   इदानीं पर्यन्‍तं ये सज्‍जां कर्तुं समयं न प्राप्‍तवन्‍त:  तेषां कृते मम हार्दिकी शुभकामना: सन्ति 

  ये तु सज्‍जां कृतवन्‍त: तेषां कृतेपि मम हार्दिकी शुभकामना: सन्ति    अद्य 21 दिनांक: जात: एव , अवशिष्‍टानि सन्ति केवलं 5 दिनानि   इदानीमपि ये इच्‍छन्ति सम्‍यक रूपेण परीक्षा दातुं ते सज्‍जां कर्तुं शक्‍नुवन्ति यतोहि मया श्रुत: अस्ति यत् सम्‍प्रति नेट इति परीक्षाया: सरलीकरणं जातम् अस्ति   
पूर्व परीक्षा उत्‍तीर्णं कर्तुं तु 90 अंका: आवश्‍यका: आसन् किन्‍तु एवं श्रूयते यत् अस्मिन् वर्षे तु केवलं 80 अंका: एव पर्याप्‍ता: भविष्‍यन्ति    तदर्थमेव मम कामना अस्ति सर्वेषां कृते यत् सर्वे परीक्षायां उत्‍तीर्णा: भवन्‍तु अस्मिन् वर्षे एव 
संस्‍कृतजनानां कृते एष: संस्‍कृतपरिवार: महती शुभकामना: ददाति 






ॐ कर्पूर गौरं करुणावतारं
संसार सारं भुजगेन्द्र हारं

सदा वसन्तं हृदयारवृन्दे
भवं भवानी सहितं नमामि !!


श्री विष्‍णुकान्‍तवर्येण एकं आवाह्नं कृतमस्ति राष्‍ट्राय, राष्‍ट्रभाषायां
क्षम्यतां यत् तस्‍य प्रकाशनम् अनवधानकारणात् मूललेखे कृतम् ।
सम्‍प्रति त्रुटि: समीक्रियते ।।



      कारयानं कथं चालनीयं एतस्य प्रशिक्षणम् अहं ६ वर्षात् पूर्वं एव प्राप्तवती। प्रमाणपत्रम् अपि प्राप्तवती। किन्तु मार्गे एकाकिनी न् चालितवती। मनसि इच्छा तु आसीत्।

" कारयानस्य कुञ्चिकां ददातु। मया ग्रन्थालयः गन्तव्यः।" अहं मम पतिं प्रार्थये।
सः वृत्तपत्रं पठन् आसीत्। वृत्तपत्रम् अङ्के स्थापयित्वा अविश्वस्य एकं पूर्णं निमिषं सः मां प्रति अपश्यत्।
" ददातु, शीघ्रम् ।" अहं हस्तं प्रसार्य तं अवदत् ।
सः कुञ्चिकां तु दत्तवान् किन्तु सहजतया न। नैकाः सूचनाः दत्तवान्। बहून् प्रश्नान् पृष्टवान्।
" शनैः शनैः चालयतु। वारंवारं सुचनारवं करोतु।अद्य १२ दिनाङ्कः। समसङ्ख्या। विषम सङ्ख्या न। कारयानं कुत्र स्थापयिष्यसि? ग्रन्थालयस्य पुरतः स्थानं नास्ति चेत् किम् करिष्यसि? कारयानं पिहितं कृत्वा एव ग्रन्थालयं गच्छतु। हस्त-रोधकस्य प्रयोगं करोतु। न विस्मरतु।" इत्यादयः।
अर्धमनसा किञ्चित् उत्तरं दत्त्वा अहं कुञ्चिकां स्वीकृतवती।
पर्याप्तः आत्मविश्वासः आसीत् अतः मनसि भीतिः न आसीत्। अहं सहजतया कारयानं चालयन्ती ग्रन्थालयं गतवती। पूर्वतनपुस्तकानि दत्त्वा नूतनानि पुस्तकानि चित्वा ग्रन्थालयतः बहिः आगतवती। तत्र कल्पनाभगिन्या मिलितवती।सप्ताहात् पूर्वं तस्याः अस्वास्थ्यम् आसीत्। तस्मिन् विषये विचारणां कृतवती। वार्तालापं कुर्वती तया सह "अपना बज़ार" आपणं गतवती।कानिचन वस्तूनि क्रेतवती। ततः साक्षात् गृहं प्रत्यागतवती।
गृहे मम पतिः, राजस्थानप्रदेशे मम पुत्री, अमेरिकादेशे मम पुत्रः विहितं कार्यं विस्मृत्य सङ्गणकस्य पुरतः उपविष्टाः आसन्। मां दृष्ट्वा यावन्तं मुक्त्यानन्दं अहं मम पत्युः वदने दृष्टवती तावन्तं कदापि न दृष्टवती आसम्।अन्तर्मुखं भूत्वा अहं चिन्तितवती, "कारयानेन गच्छामि चेत् मम परिवारस्य चिन्ता वर्धमाना भवति। ते आत्मनः कार्यं त्यक्त्वा मम चिन्तां कुर्वन्ति। किन्तु त्रिचक्रिकया गच्छामि चेत् अधिकाधिकं २५ रुप्यकाणि एव व्ययं करोमि।"
संप्रति अहं २५ रुप्यकैः मम परिवारस्य कृते मनःशान्तिं क्रीणामि।






          लखनउ /12/12/10 संस्‍कृतभारती मुख्‍य-कार्यालये परह्य: (रविवासरे) बंगलूरूराज्‍ये आयोजित-विश्‍वसंस्‍कृतपुस्‍तकमेलायां गन्‍तुं, तत: पूर्वं सज्‍जां कर्तुं च एका गोष्‍ठी आयोजिता  ।
अस्‍या: गोष्‍ठ्या: अध्‍यक्षतां संस्‍कृतभारती अवधप्रान्‍तस्‍य मुख्‍याध्‍यक्षमहोदय: श्री सोहनलाल उकील जी कृतवान्  ।  स: विश्‍वपुस्‍तकमेलायां करणीयानां कार्याणां अथ च अवधानानां विषयेपि चर्चां कृतवान्  ।
          गोष्‍ठ्यां उपस्थ्‍िाता: सर्वे जना: स्‍व- स्‍व विचारम् अपि दत्‍तवन्‍त:  ।  गोष्‍ठी त्रिषु सत्रेषु आयोजिता अभवत्  ।  गोष्‍ठ्या अन्‍यानां विषयानाम् अपि चर्चा जाता  । 
          पत्राचारमाध्‍यमेन संस्‍कृतपठनाय उत्‍सुकानां जनानां सूची श्री अनिलमहोदयेन दत्‍ता  ।  दिसम्‍बर मासे द्वितीये पक्षे पत्राचारपाठनस्‍य प्रथमपरीक्षा आयोजिता इति अपि तेन सूचिता  ।।
          श्री श्‍यामलेश जी, श्रीमती पद्मि‍नी नाथू  जी , श्री श्रवणानन्‍द जी, श्री सुशील जी, श्री ओंकार जी,  श्री प्रमोद जी, श्री आनन्‍द जी, सरिता जी, अनुराधा जी, सोनल जी आदि संस्‍कृतभारत्‍या: कार्यकर्तार: अपि स्‍व-स्‍व विचारं दत्‍तवन्‍त:  ।



संस्‍कृतभारती द्वारा सम्‍प्रति अवधप्रान्‍तस्‍य बालानां कृते संस्‍कार केन्‍द्रम् आयोज्‍यते    अत्र लघुबालानां परिष्‍कारं संस्‍कृतमाध्‍यमेन क्रियते    अस्मिन् आयोजने बालानां संस्‍कृतज्ञानं पुनश्‍च, सामान्‍यव्‍यवहारज्ञानं कारयिष्‍यते   बालानां आयुसीमा 6वर्ष- 12वर्ष एव भवेत् इति अवधानं देयं भवति 
          अस्‍य आयोजनं संस्‍कृतभारती अवधप्रान्‍तस्‍य मुख्‍यकार्यालये (शिवमन्दिर परिसर:, सचिवालय कालोनी, सेक्‍टर बी, महानगरम्, लखनउ )  एव क्रियते    यदि संख्‍या अधिका भ‍वति चेत् स्‍थानीयेषु स्‍थानेषु अपि आयोजनं भविष्‍ये चिन्तितम् अस्ति 
          लखनउ उत समीपस्‍था: जना: सम्‍पर्कं कर्तुं शक्‍नुवन्ति   
अधिकं ज्ञातुं 0522 – 2384700 संख्‍साया: उपरि भाषं कर्तुं शक्‍नुवन्ति  ।।

जयतु संस्‍कृतम्





संस्‍कृतम्-भारतस्‍य जीवनम् जालपुटस्‍य शब्‍दचित्रं स्‍वजालपुटस्‍योपरि संस्‍थाप्‍य संस्‍कृतस्‍य प्रसाराय स्‍व किंचित् योगदानं ददातु    स्‍वाजालपुटस्‍योपरि संस्‍थाप्‍य भवन्‍त: सूक्ष्‍मरूपेण संस्‍कृतस्‍य उपकारम् एव करिष्‍यन्ति    एतत् शब्‍दचित्रं एवं दृष्‍यते  यदा भवन्‍त: एतत् स्‍व एचटीएमएल पेटिकायां स्‍थापयिष्‍यन्ति  ।।
इदानीमेव स्वपृष्‍ठस्‍योपरि संस्‍कृतम्-भारतस्‍य जीवनम् शब्‍दचित्रं संस्‍थाप्‍य संस्‍कृतस्‍य प्रसाराय योगदानं ददतु  ।।

जयतु संस्‍कृतम्
भवदीय: - आनन्‍द: 



‘हांगकांग-ओपेन-बैडमिंटन-श्रृंखला’ प्रतिस्‍पर्धायां रविवासरे 12 दिसंबर खीस्‍ताब्‍दे महिलाएकलउपाधिं ‘महिला सिंगल्स खिताब’ विजित्‍य साइना नहवाल: इतिहासं रचितवती   
विजयं प्राप्‍य पुरस्‍कारवितरण समारोहे भारतीयतिरंगा ध्‍वजेन सह  पुरस्‍कारं गृहीतुं गतवती  ।।






भारत-न्‍यूजीलैण्‍डदेशयो: मध्‍ये प्रचलन् क्रिकेटश्रृंखला अद्य भारतदेशेन सरलतया विजितम्    विदितं भवतु यत् भारत-न्‍यूजीलैण्‍डदेशयो: मध्‍ये 5 क्रिकेटक्रीडाया: श्रृंखला आयोजिता आसीत् , यस्मिन् भारतेन पूर्वमेव चतस्र: क्रीडा: विजिता:    अद्य अस्‍या: श्रृखलाया: अन्तिमक्रीडा आसीत् यत् अपि भारतेन् सरलतया विजितम्   
          क्रीडाया: प्रारम्‍भे न्‍यूजीलैण्‍डदेशेन नाणकाक्षेपं (टास) विजित्‍य भारतं प्रति क्षेत्ररक्षणं दत्‍तम्    न्‍यूजीलैण्‍डदेशस्‍य प्रारम्‍भ: सम्‍यक् न जात:    प्रायश: सर्वे क्रीडका: शीघ्रमेव बहि: अभवन्    न्‍यूजीलैण्‍ड 27 अतिरेके (ओवर में) 103 धावनांकम् एव अर्जितम्    भारतस्‍य कृते केवलं 104 धावनांकानां लक्ष्‍यम् आसीत् यत् भारतेन 2 क्रीडकौ एव हित्‍वा प्राप्‍तम् । 
          भारतेन लक्ष्‍यं 21.1 अतिरेके एव प्राप्‍तम्    युवराजसिंहेन 42 अविजितं अपि च पार्थिव पटेल 56 अविजितं धावनांकानि अर्जितानि 
          श्रृखलाया: सर्वश्रेष्‍ठ: क्रीडक: इति उपाधि: (मैन आफ द सिरीज) गौतमगंभीर: प्राप्‍तवान्   अस्‍या: क्रीडाया: सर्वश्रेष्‍ठ: क्रीडक: (मैन आफ द मैच) युवराजसिंह: चित:  । 




वैदेशिकपर्यटका: अपि वाराणस्‍यां विस्‍फोटे मृतानां-हतानां वा जनानां आत्‍मशान्तिनिमित्‍तं आयोजिते प्रार्थनासमारोहे भागं गृहीतवन्‍त: ।।
गतमंगलवासरे वाराणसीनगरे य: उत्‍पात: जात: तस्मिन् बहव: जना: हता:-मृता: च , तेषु केचन् वैदेशिका: अपि आसन्   सायंकालीनं गंगा-नीराजने (आरती मे) उपस्थितानां बहूनां जनानां मध्‍ये एव एक: तीव्र विस्‍फोट: जात: येन वहव: भारतीया: वैदेशिका: च व्रणिता: (चोटिल) अभवन् , एका: लघ्‍वी बालिका साक्षात् मरणं प्राप्‍तवती    अन्‍ये बहव: गम्‍भीर रूपेण व्रणिता: अभवन् 
          तेषां शान्तिनिमित्‍तं गतवृहस्‍पतिवासरे वाराणस्‍याम् एव एका प्रार्थना आयोजिता अभवत्    तत्र बहव: वै‍देशिका: अपि भागं गृहीतवन्‍त: 



कस्मिन्श्चित् नगरे धनानन्दः नाम्ना कश्चन धनिकः आसीत्   किन्तु अतिकृपणः। एकदा नगरे महाभयङ्करः रोगप्रसारः अभवत्   पीडिताः नगरात् बहिः गत्वा न्यवसन्  । औषधोपचाराः तु आवश्यकाः  । साहाय्यम् अपि आवश्यकम् आसीत्  । समीपे एव एकः साधुः निवसति स्म 
"यदि धनिकाः धनदानं कुर्वन्ति तर्हि औषधोपचाराः निश्चयेन भविष्यन्ति  ।" इति विचिन्त्य साधुः धनानन्दं प्रति गतवान्   प्रार्थनां कृतवान् ," निर्धनाः रोगप्रसारेण पीडिताः 
भवान् धनिकः  । भवतः साहाय्यम् आवश्यकम्  । कृपया धनदानं करोतु।"
किन्तु धनानन्दः दानं न कृतवान् 
"अस्तु। कृपया मह्यं १० सुवर्ण नाणकानि ददातु  । सायङ्काले प्रतिदास्यामि  ।"------साधुः अवदत्।
"कथम्?" आश्चर्येन धनानन्दः पृष्टवान् 
"भवतः प्राप्तं धनं दर्शयित्वा अहम् इतरान् धनिकान् दानं कर्तुं प्रेरयिष्यामि    तदनन्तरं भवतः नाणकानि प्रतिदास्यामि  । चिन्ता मास्तु  ।"----- साधुः अवदत् ।
साधौ विश्वासं कृत्वा धनानन्दः तस्मै नाणकानि दत्तवान् 
योजनानुसारं साधुः पर्याप्तं धनं प्राप्तवान् 
कृपणेन धनानन्देन अपि दानं कृतम् इति मत्वा नगरस्य अन्यैः धनिकैः अपि साहाय्यं कृतम्  । योजनानुसारं साधुः धनानन्दाय नाणकानि प्रतिदत्तवान्  । किन्तु अहो आश्चर्यम्! धनानन्दः न् स्वीकृतवान्   
साधुं नमस्कृत्य सः उक्तवान् - " मया साहाय्यं कृतम् इति मत्वा प्रातः आरभ्य बहवः जनाः मम गृहम् आगत्य अभिनन्दनं कृतवन्तः  । यतः कृपणः इति मम ख्यातिः  । १० सुवर्ण नाणकैः अहं दानानन्दं प्राप्तवान्  ।भवान् दानानन्दस्य परिचयं कारितवान्  । धनानन्दस्य अपेक्षया दानानन्दः श्रेष्ठः 
धन्यवादः 


केचन दिवसेभ्‍य: पूर्वं अहं एकं शिवालयपरिसरं (शिवबाबा, अकबरपुर, अम्‍बेडकरनगर) प्रति गतवानासम् ।  तत्र अहं एकं अद्भुतं दृश्‍यं दृष्‍टवान    तत्र प्राय: जलनलिकानां संख्‍या शताधिकी आसीत्    सम्‍प्रति भवन्‍त: चिन्‍तयन् स्‍यु: यत् अस्मिन् किमपि नूतनं तु नैव    प्रायश: तादृशेषु स्‍थानेषु  बहव्‍य: नलिका: भवन्ति एव यात्रीणां सुवाधार्थम्    चेत् अत्र किं विशिष्‍टम्    विशिष्‍टम् एतत् यत् प्रायश: यत्र कुत्रचित् अपि एताव‍ती नलिका: भ‍वन्ति तासाम् सर्वाषाम् उद्गम: कश्चित् एक: एव वृहद् घट: भवति    पुनश्‍च स: दीर्घ-जलाकर: स्‍वाचालित् जलयन्‍त्रेण् एव पूरयित: भवति    किन्‍तु अत्र सर्वे नला: तु साक्षात् पृथिव्‍याम् एव स्‍थापिता: सन्ति    इत्‍युक्‍ते सर्वेषां नलानाम् उद्गम: साक्षात् पृथिवी एव अस्ति 
मया एते सर्वे गणिता: , संख्‍या 85 प्राप्‍ता  । एते 85 नला: ते सन्ति येषामुपरि अधो यन्‍त्रं (आधार:) अस्ति   बहव: तादृशा: अपि त्‍यक्‍ता: येषामुपरि आधार: नासीत्, केवलं नलिका: एव आसन्   यदि एते सर्वे अपि गण्‍यते चेत् एतेषां संख्‍या शताधिकी भवति    इति   
स्‍वयमेव पश्‍यन्तु  भवन्‍त: -----------




सम्‍प्रति भवन्‍त: एव विचारयन्‍तु यत् कदाचिदपि भवन्‍त: ए‍कस्मिन् एव स्‍थाने एतावन्‍त: नला: दृष्‍टवन्‍त:    नैव -------
अस्ति एतत् विश्‍वकीर्तिमानम्  न वा ?


Click to view the full digital publication online
अत्र आघातं कृत्‍वा स्‍वीकरोतु/श्रृणोतु वा HE ATULIT BALDHARI mp3



भवतां पुरत: फैजाबाद क्षेत्रस्‍य प्रशिद्धकवि:श्री दयारामतिवारी जी ‘पुष्‍प’ महोदयस्‍य एकं गीतं प्रस्‍तोमि । गीतं श्री भगवत: हनुमते समर्पित: अस्ति ।  एतत् गीतं फैजाबाद क्षेत्रे बहुप्रचलित: अस्ति  ।  मुख्‍यस्‍वर: श्री कवि अनिरूद्धमुनिपाण्‍डेय ‘आर्त’ वर्यस्‍य अस्ति । 

गीतम् अवधी भाषायाम् अस्ति ।  अति मधुरं गीतमस्ति एतत्  ।  अस्‍तु तर्हि इदानीमेव स्‍वीकरो‍तु  ।  


ईशावास्यमिदं सर्वँ यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥ 
( ईशावास्‍योपनिषद् -1 ) 



एकं दृश्यं द्वौ विचारौ

नेहा राहुलः च मातृ-पितृभ्यां सह शिवालयं गच्छतः स्म ।  नगरात् बहिः मार्गे तैः एकः आम्रवृक्षः दृष्टः ।  वृक्षस्य शाखासु बहूनि आम्रफ़लानि आसन् ।  वृक्षस्य अधः कश्चन मनुष्यः यष्ट्या शाखासु ताडयन् आम्रफ़लानि पातयति स्म ।  नेहा राहुलः च एतद् दृश्यं अवलोकयतः स्म ।  प्रहारं कृत्वा अपि फ़लम् न पतितं चेत् सः वारंवारं बलेन प्रहारं करोति स्म ।

"एतद् दृष्ट्वा भवतोः मनसोः के के विचाराः आगताः?"---- पिता पृष्टवान् ।

" सः मनुष्यः शाखासु यष्ट्या ताडयन् अस्ति ।  तदा एव वृक्षतः आम्रफ़लं पतति ।  यत् किमपि वयम् इच्छामः तत् प्राप्तुम् आक्रमणम् आवश्यकम् इति अहं मन्ये।"---राहुलः उक्तवान्।

" मम विचारः भिन्नः ।  यद्यपि सः वृक्षं ताडयति तथापि वृक्षः फ़लानि एव ददाति तस्मै ।  " ------नेहा विचारं प्रकटितवती ।
" शोभनम् ।  नेहे , उत्तमः विचारः ।  वृक्षः परोपकारार्थम् एव जीवति ।  मरणोत्तरम् अपि परोपकारम् एव करोति ।
राहुल, एषः तु अस्माकं पुरतः आदर्शः ।  " --- माता उक्तवती।








1- यदा संहरते चायं कुर्मोंगानीव सर्वश:, 
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता.


2- विषया विनिवर्तन्ते निराहारस्य देहिन:
रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते 



3- यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित:
इन्द्रियाणि प्रमाथिनी हरन्ति प्रसभम मन: ।।



4- तानिं सर्वाणि संयभ्य युक्त आसीत् मत्पर:
वशे हि यस्येद्रियाणि तस्य प्रज्ञां प्रतिष्ठा  ।।






कस्मिंश्चित् ग्रामे कस्याञ्चित् पाठशालायाम् शालान्त-समारम्भः प्रचलन् आसीत् | कश्चन वक्ता छात्रान् उपदिशन् आसीत् |"भवन्तः सर्वे परीक्षायां निश्चयेन सफलतां प्राप्स्यन्ति | एतस्मिन् विषये मम मनसि काऽपि शङ्का नास्ति| किन्तु शालान्तपरीक्षा जीवनस्य अन्तिमा परीक्षा तु नास्ति | पाठशालायाः बहिः अपि कठिनाः परीक्षाः दातव्याः अस्माभिः| तासु परीक्षासु सफलता कथं प्राप्तव्या? असफलतां प्राप्यापि हतोत्साहितं कथं न भवितव्यम् ?"
महोदयः युतकस्य कोषतः नूतनं स्वच्छं सहस्ररुप्यकाणिधनपत्रं निष्कासितवान्| सर्वान् दर्शयन् उक्तवान् , " एतद् धनपत्रम् अहं कस्मैचित् दातुम् इच्छामि| के के छात्राः इच्छन्ति?"
झटिति बहवः हस्ताः उपरि गताः|
गम्भीरतया महोदयः धूलिकणैः धनपत्रं मलिनीकृतवान। | सर्वे छात्राः आश्चर्येन दृष्टवन्तः|
"इदानीं के के छात्राः इच्छन्ति?" --महोदयः
पुनः हस्ताः उपरि गताः|
किञ्चित् हसित्वा महोदयः धनपत्रं मुष्ट्यां सङ्कुचितीकृत्य तमेव प्रश्नं पृष्टवान्|
हस्ताः तु उपरि एव स्थिताः|तथापि छात्राणां मनस्सु औत्सुक्यं जागरितम्|
धनपत्रं पादस्य अधः स्थापयित्वा तान् प्रति केवलं दृष्टवान्| किन्तु हस्ताः अधः न आगताः| चिन्तयन्तः आसन् सर्वे|
सावधानतया हस्तेन धनपत्रं सरलीकृत्य महोदयः उक्तवान्,
"यद्यपि अहं धनपत्रं मलिनीकृतवान्, सङ्कुचितीकृतवान् , पादस्य अधः स्थापितवान् तथापि भवन्तः एतद् धनपत्रम् इच्छन्ति| आम् वा न?"
"आम्" उच्‍चैः सर्वे उक्तवन्तः|
" यतः एतस्य मूल्यं न्यूनं न अभवत्| इदानीं अपि एतस्य मूल्यं सहस्ररुप्यकाणि एव अस्‍ति| एवम् एव कोऽपि अवमानेन उपहासेन वा चारित्र्यहननेन वा अस्माकं मूल्यं न्यूनीकर्तुं न शक्नोति| कदापि न| यः कोऽपि एतद् तात्पर्यं जानाति सः कदापि नैराश्यग्रस्तं भवितु्ं न अर्हति| हे छात्राः! कदापि न विस्मरन्तु , भवन्तः सर्वे विशेषाः सन्ति|"
अहं कदापि न विस्मृतवती|
  




1- शैले शैले न माणिक्यं मौक्तिकं न गजे गजे
साधवो न हि सर्वत्र चन्दनं न वने वने ।। (हितोपदेश)


2- एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु |
तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मॄतम् ।।

3- सर्वं परवशं दु:खं सर्वम् आत्मवशं सुखम् |
एतद् विद्यात् समासेन लक्षणं सुखदु:खयो: ।।

4- अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् |
अधनस्य कुतो मित्रम् अमित्रस्य कुतो सुखम् ।।

5- आकाशात् पतितं तोयं यथा गच्छति सागरम् |
सर्वदेवनमस्कार: केशवं प्रति गच्छति ।।

6- नीरक्षीरविवेके हंस आलस्यम् त्वम् एव तनुषे चेत् |
विश्वस्मिन् अधुना अन्य: कुलव्रतं पालयिष्यति क: ।।

7- पापं प्रज्ञा नाशयति क्रियमाणं पुन: पुन: |
नष्टप्रज्ञ: पापमेव नित्यमारभते नर: ।। ( विदुरनीति )




8- अल्पानामपि वस्तूनां संहति: कार्यसाधिका
तॄणैर्गुणत्वमापन्नैर् बध्यन्ते मत्तदन्तिन: ।।



एतानि सुभाषितानि श्रीरामदास वर्येण संकलितानि सन्ति । तेन एतेषां सुभाषितानां हिन्‍दीअर्थ: अपि दत्‍त: अस्ति यत् टिप्‍पणीपेटिकायां प्रकाश्‍यते ।।

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll