पृथ्वी, मही, वसुधा, धरित्री, मेदिनी, धरणी, धरा, 
भूः, भूमि, क्षिति, उर्वी, क्षमा, क्षोणि, एवं च वसुंधरा ।
ऊषर, मरु:, धन्वा, स्थलम्, खिल, स्थान, क्षेत्रं, प्रान्तरम् ।।
केदार, सैकत, मृत्तिका, बिल, क्षिद्र, रेणु:, समतलम् ।। 
वन, विपिन, शार्कर, जनपद, गर्त, धूलि:, काननम ।। 
उद्घातिनी, रज, शर्करा, मृत, बालुका अथ च विष्टपम ।।



केंद्रसर्वकारस्य कार्यलयानां भ्रष्टाचारनिरोधनार्थं केवलं सप्ताहपर्यन्तं एव   विविधि कार्यक्रमान् दर्शिता: ।
     अस्मिन् अवसरे विविधिबक्तब्यान् घोषिता: च ।
अत्र एकः प्रश्नः  विचारणीयः .....
किं वयं स्वतंत्रभारतस्य नागरिका: भ्रष्‍टाचारनिरोधनार्थं केवलं एकसप्ताहपर्यन्तम् एव प्रयासं कुर्म:, इत्‍येव अलं किल ??
किं वयं अनेन् अवसरे अस्य संपादनार्थं जीवनपर्यन्‍तम् एष: संकल्प: न धारयाम: ??



आदरणीय संस्‍कृतजालपुटलेखका:
सस्‍कृतस्‍य जालजगति प्रसाराय भवतां सर्वेषां सहयोग: महद्भूत: धन्‍यवादार्ह: च
सम्‍प्रति जालजगति अपि संस्‍कृतस्‍य लेखा: दृष्‍न्‍ते प्रायश: इत्‍यपि महत् हर्षस्‍य विषय:
किन्‍तु चेदपि अस्‍माकं दायित्‍वं इदानीमपि समाप्‍तं नास्ति ।।
अस्‍माभि: इदानीमपि इतोपि प्रयास: करणीय: येन जालजगति संस्‍कृतस्‍य लेखा: प्रायश: आगच्‍छेयु:

सम्‍प्रति एका सूचना अस्ति
गत त्रि दिवसेभ्‍य: अहं ज्‍वरपीडितोस्मि अ‍त: चिकित्साकार्यार्थं गच्‍छन् अस्मि
;मम आगमने सम्‍भवत: 7-8 दिवसा: लगिष्‍यन्ति ।
तावत् संस्‍कृतस्‍य लेखानां अभाव: न भवेत् एतदर्थं भवन्‍त: सर्वे प्रतिदिनं न्‍यूनातिन्यूनं एकं एकं लेखं प्रेषयन्तु ।।

अहं श्री प्रतुल महोदयाय धन्‍यवादं ददामि यत् स: प्रतिदिनं प्रतिद्वितीयदिनं वा एक: लेख: अवश्‍यं प्रेषयति
एवमेव भवन्‍त: सर्वेपि प्रतिदिनं एकं लेखं अवश्‍यमेव प्रेषयन्‍तु इति मे अभिलाषा, निवेदनं च ।।

संस्‍कृतकार्याय स्‍व अमूल्‍यसमयं दातुं भवतां सर्वेषां हार्दिक: धन्‍यवाद:

--
भवदीय: - आनन्‍द:

शुक्लांबरधरविष्णुं शशिवर्णं चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशांतये ।

शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदऋशं मेघवर्णं शुभांगं
लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं ।

शत्रोरपि गुणा वाच्या, दोषा वाच्या गुरोरपि |





जयतु संस्‍कृतम्

भवदीय: - आनन्‍द:



शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म. 

न विराजन्ति हि सर्वे वित्तविहीनस्य पुरुषस्य. 

अन्वय: 
शीलं, शौचं, क्षान्तिः, दाक्षिण्यं, मधुरता, कुले जन्म च (एते) सर्वे हि वित्तविहीनस्य पुरुषस्य न विराजन्ति. 


हिन्‍दीभाषायां पठितुमत्र आघात: कुर्वन्‍तु  

         राष्‍ट्रीयपात्रतापरीक्षा (नेट) इत्‍येतस्मिन् विषये ये जना: आवेदनपत्रं पूरयितुमिच्‍छन्ति ते इदानीं पूरयितुं शक्‍नुवन्ति । अस्‍य आवेदनार्थ पूर्वं चालानपत्रं जालपुटत: गृह्य पार्श्‍वेस्थितभारतीयस्‍टेटबैंकशाखात् 450 रूप्‍यकात्‍मकं सामान्‍य जनानां कृते आवेदनशुल्‍कं दत्‍वा आवेदनपत्रं पूरय‍न्‍तु । 
  आवेदनं जालपुटेएव साक्षात् (आनलाइन) पूरयित्‍वा तस्‍य द्वा प्रति: निष्‍काष्‍य विश्‍वविद्यालयअनुदानआयोगसंस्‍थायां समर्पणीयम् भविष्‍यति । अस्मिन् विषये अधिकं अस्‍य आधिकारिके जालपृष्‍ठे  गच्‍छन्‍तु । अत्र गत्‍वा पूर्वं सामान्‍यपरिचयं स्‍वीकृत्‍य यथानिर्दिष्‍टं पालयतु ।। 
      आवेदनपत्रस्‍य (आनलाइन) अन्तिमतिथि: 25 अक्‍टूबर अस्ति । आवेदनपत्रस्‍य प्रतिप्रेषणस्‍य अन्तिमतिथि: 1 नवम्‍बर इति अस्ति ।। 




ये जना: इच्‍छुका: सन्ति ते कृपया शीघ्रतां सम्‍पादयेयु: ।।


भवदीय:-  आनन्‍द:



नमामीशमीशान  निर्वाणरूपं  | विभुं व्यापकं ब्रह्म  वेदस्‍वरुपम ||
निजं निर्गुणं  निर्विकल्पं निरीहम्| चिदाकाशमाकाशवासं भजेहम्||
निराकार मोंकारमूलं तुरीयम्| गिरा ज्ञान गोतीतमीशं गिरीशम् ||
करालं महाकाल कालं कृपालं | गुणाकार संसारपारं नतोहम् ||
तुषाराद्रि शंकाश गौरं गंभीरम्| मनोभूत कोटिप्रभा श्री शरीरम्||
स्फुरन्मौलि कल्लोलिनी चारू गंगा | लसद्भालबालेंदु कंठे भुजंगा ||
चलत्कुण्‍डलं भ्रू सुनेत्रं विशालं | प्रसन्‍नाननं  नीलकंठं   दयालम् ||
मृगाधीश  चर्माम्बरं  मुण्डमालं | प्रियं  शंकरं  सर्वनाथं  भजामि  ||
प्रचंडं प्रकृष्‍टं प्रगल्भं परेशं | अखंडं अजं भानुकोटि प्रकाशम् ||
 त्रय: शूल निर्मूलनं शूलपाणिम्  | भजेहं भवानीपतिं भावगम्यम् ||
 कलातीत कल्याण कल्पान्तकारी | सदा सज्जनानन्ददाता पुरारी ||
चिदानन्द  सन्दोह मोहापहारी | प्रसीद प्रसीद  प्रभो मन्मथारी ||
न यावद् उमानाथ पादारविन्दम् | भजंतीह लोके परे वा नाराणाम्  ||
न तावत्सुखम शांति सन्तापनाशम् | प्रसीद प्रभो सर्व भूताधिवासम्  ||
न जानामी योगं जपं नैव  पूजाम् | नतोहं सदा सर्वदा शम्भु तुभ्यम् ||
जरा जन्मदु:खौघ  तातप्यमानं | प्रभो पाहि आपन्नमामीश शम्भो ||
रुद्राष्टकमिदं प्रोक्तं  विप्रेण हर्तोशये  |
 ये पठन्ति नरा भक्त्या तेषां  शम्भु प्रसीदति  ||


अद्यतनीयस्‍य कृते एतावत् एव अलमस्ति 

अग्रिम कक्ष्‍यायां भूतकाल विषये पठिष्‍याम: ।।

भवदीय:-आनन्‍द
 

प्रत्येकः ग्रहः कस्यापि न कस्यापि  राशेः स्वामी भवति ।
तत् कथं इति वयं ज्ञातुं प्रयासं करिष्यामः ,पूर्व-पाठे वयं ज्ञातवन्तः ग्रहाणां नामानि ।
तत् पुनः एकबारं स्पष्टयामि - 
ग्रहाः नव -
सूर्यः,चन्द्रः,मङ्गलःबुधः,गुरुः,शुक्रः,शनिः,राहुः,केतुः 
एते ग्रहाः द्वादश-राशीनां स्वामिनः सन्ति 
श्लोकः - 
मेष-वृश्चिकयोः  भौमः ,शुक्रो वृष-तुलाधिपः।
सिंहस्य अधिपतिः सूर्यः,बुधो मिथुन-कन्ययोः ।।
कर्कस्य अधिपतिः चन्द्रः, शनिः मकर-कुम्भयोः।
स्वामिनः एते ज्ञेयाः,धनुः-मीन-अधिपतिः  गुरुः ।।
अर्थात्- ग्रहः-                   राशिः
            सूर्यः                    सिंहः 
            चन्द्रः                  कर्कः
            भौमः                  मेषः - वृश्चिकः 
            बुधः                    मिथुन-कन्या 
            गुरुः                    धनुः -मीनः 
            शुक्रः                    वृष-तुला 
            शनिः                  मकरः-कुम्भः  
एतत् ज्ञानं परमं आवश्यकं अस्ति,अतः ज्योतिष-ज्ञानाय अवश्यं ध्येयम्।
                     धन्यवादः 

न मे स्तेनो जनपदे, न कदर्थो न मद्यपः 
नानहिताग्नि नो विद्वान्न स्वैरी स्वैरिणी कुतः 

केकय नरेश अश्वपति उवाच

check this

Subscribe via email

Search