सम्‍पूर्ण भारते भगवान् श्रीरामचन्‍द्र: सर्वमान्‍य: सर्वतो पूजनीय: च अस्ति।
बहव: तं ब्रह्म इति मत्‍वा पूज्‍यन्‍ते चेत् बहव: नारायणस्‍य अवतार इति मत्‍वा पूज्‍यन्‍ते किन्‍तु प्रायश: कस्मिश्च्ति् अपि राज्‍ये भगवान् श्रीरामचन्‍द्रस्‍य विरोध: नास्ति।
अस्‍माकं भारते एव तथा नास्ति अपितु सम्‍पूर्णविश्‍वे भगवत: श्रीरामस्‍य तथैव अर्चा भवति।
सीमा प्रदेशे स्थितानां प्ररक्षकवीराणां तु प्राणे एव वसति भगवान् श्रीराम।


किन्‍तु यस्‍य भारतदेशस्‍य आत्‍मा भगवत: श्रीरामचन्‍द्रस्‍य चरणौ वसति तस्‍य देशस्‍य एव केचन् राजनीतिराक्षसा: भगवत: सत्‍ता नास्ति इति वदन्ति।
ते नरप्रेता: भगवन्‍तं हिमालयस्‍य आकारवत् मिथ्‍या प्रमाणयन्ति।
तेषां मुखपिधानं तु कर्तुं न शक्‍नुम: किन्‍तु ये भगवत्‍पादारविन्‍दौ अनुरागं धरन्ति तेषां कृते भगवान् श्रीरामसीता कथं ब्रह्म इति रहस्‍यं उद्घाटयाम:।
पूर्वतनलेखे अहं 108 इति संख्‍याया: महत्‍वं उद्घाटितवान् आसम्।
तस्‍यानुसारं 108 इति ब्रह्मसूचक: खलु।
साम्‍प्रतं अत्र अहं सीताराम इति संज्ञायां 108 इति वर्णसंख्‍या दर्शयामि।
सीताराम इत्‍यस्‍य वर्णक्रम: पश्‍याम:


स-32
ई-4
त-16
आ-2
र-27
आ-2
म-25


व्‍यंजनवर्णेषु 'स'कारस्‍य 32तमं स्‍थानम्।
तथैव अन्‍येषां व्‍यंजनानां स्‍थानं क्रमश:।
स्‍वरवर्णेषु 'ई'कारस्‍य 4तमं स्‍थानम्।
तथैव अन्‍येषां स्‍वराणामपि।


एतस्मिन् क्रमे यदि सम्‍पूर्णस्‍य गणनां कुर्म: चेत्
32 +4 +16 +2 +27 +2 +25= 108


एवं विधा श्रीरामसीता साक्षात् ब्रह्म एव इति प्रमाण्‍यते।
अस्मिन् लेखे दत्‍तानां वर्णक्रमाणां अवगमनार्थं मम पूर्वतनं लेखनं पश्‍यन्‍तु।
अत्र यदि काचित् त्रुटि: दृष्‍यते चेत् अवश्‍यमेव सूचनीयम्।


भवतां प्रतिक्रियाया: कृते हार्दिक स्‍वागतमस्ति।


भवदीय:- आनन्‍द:

0 comments

Post a Comment

check this

Subscribe via email

Search