नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः।
तत्तु तत्रैव रमते हताः पाणिनिना वयम्।।
सर्वेषां भारतीयानां कृते मम हार्दिकं अभिवादनमस्ति
अतीवहर्षस्य विषय: अस्ति यत् भगवत: श्रीरामस्य जन्मभूमि: अद्य न्यायालयेन भगवत: एव अस्ति इति निर्णय: स्थापित:
श्रीउच्चन्यायालयस्य त्रय: न्यायाधीशा: अपि एकस्वरेणेव स्वीकृतवन्त: यत् तत्र भगवत: श्रीरामस्य जन्मं अभवत् ।
यदा बाबर आगत: स: मीरबाकीं निर्देशितवान् । मीरबाकी श्रीरामजन्मभूमिं अत्रोटयत् अनन्तरं तत्र मस्जिद निर्माणं अकारयत् ।।
अत: अद्य श्रीन्यायाधीशमहोधया: मिलित्वा निर्णयं दत्तवन्त: यत् सा भूमि: भगवत: एव भवेत् ।।
भवन्त: सर्वे मया सह एकस्वरेण उच्चै: भगवत: श्रीरामस्य जय इति वदन्तु ।।
जय श्रीराम ।।
"भारत-वैभवं"
वन्दे नितरां भारतवसुधाम्।दिव्यहिमालय-गंगा-यमुना-सरयू-कृष्णशोभितसरसाम् ।।
मुनिजनदेवैरनिशं पूज्यां जलधितरंगैरंचितसीमाम् ।
भगवल्लीलाधाममयीं तां नानातीर्थैरभिरमणीयाम् ।।
अध्यात्मधरित्रीं गौरवपूर्णां शान्तिवहां श्रीवरदां सुखदाम् ।
सस्यश्यामलां कलिताममलां कोटि-कोटिजनसेवितमुदिताम् ।।
वीरकदम्बैरतिकमनीयां सुधिजनैश्च परमोपास्याम् ।
वेद्पुराणैः नित्यसुगीतां राष्ट्रभक्तैरीड्याम् भव्याम् ।।
नानारत्नै-र्मणिभिर्युक्तां हिरण्यरूपां हरिपदपुण्याम् ।
राधासर्वेश्वरशरणोsहं वारं वारं वन्दे रम्याम् ।।
**********************************************************************************
"देवभारती-वैभवं"
संस्कृतमनने संस्कृतपठने संस्कृतवरणे संस्कृतशरणे ।
चेतो नितरां भवतात्कृपया ममाsभिलाषोsस्ति ।।
श्रुतिशास्त्रेषु मनुशास्त्रेषु नयशास्त्रेषु रसशास्त्रेषु,
प्रगतिस्तीव्रा भवतादिति मे भावनाsस्ति ।।
लेखन-पतुत प्रवचनपटुता कर्मणि पतुत सेवा पटुता,
सततं माधव ! भवतादिह् मे याचनाsस्ति ।।
वचने मृदुता चेतसि रसता स्वात्मनि वरता दृष्टौ समता,
राधासर्वेश्वरशरणस्य प्रबला कामनाsस्ति ।।
*********************************************************************************
तसिमन्नाद्रौ कतिचिदबलाविप्रयुक्त: स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठ: ।
आषाढ़स्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥२॥
तस्य स्थित्वा कथमपि पुर: कौतुकाधानहेतो: अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथाव्रत्ति चेत: कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥
१.- कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्त:
शापेनास्तड्ग्मितहिमा वर्षभोग्येण भर्तु: ।
यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु
यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु
स्त्रिग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु
या कुंदेंदुतुषारहारधवला, या शुभ्रवस्त्रावृता.
या वीणावरदंडमंडितकरा, या श्वेतपद्मासना.
या ब्रह्माच्युतशंकरभृतिभिर्देवै: सदा वन्दिता.
सा मां पातु सरस्वती भगवती नि:शेष जाड्यापहा.
या वीणावरदंडमंडितकरा, या श्वेतपद्मासना.
या ब्रह्माच्युतशंकरभृतिभिर्देवै: सदा वन्दिता.
सा मां पातु सरस्वती भगवती नि:शेष जाड्यापहा.
या देवी सर्वभूतेषु माँ रूपेण संस्थिता
या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता
या देवी सर्वभूतेषु बुद्धि रूपेण संस्थिता
या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता.
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:
नित्यप्रार्थना
विद्या विलास मनसो धृत शील शिक्षा.
सत्यः व्रता, रहित मान मलाप हारः
संसार दुःख दलनेन सुभूषिता ये
धन्या नरः विहित कर्म परोपकारः
सर्वेभ्यः नमो नमः
वयं प्रारम्भे चरणे ग्रहाणां नामानि पठितवन्तः अधुना राशयः के इति ज्ञास्यामः
राशिः - नव चरणैः मिलित्वा भवति ( नक्षत्राणां चरणानि)
नक्षत्राणि २७ भवन्ति॥ प्रत्येकस्मिन् नक्षत्रे ४ चरणानि भवन्ति ॥
अश्विनी- चू चे चो ला
भरणी - ली लू ले लो
कृत्तिका - अ इ उ ए
रोहिणी - ओ व वी वू
मृगशिरा- वे वो का की
आर्द्रा - कु घ ङ् छ
पुनर्वसु - के को हा ही
पुष्य- हू हे हो डा
अश्लेषा - डी डू डे डो
मघा - मा मी मू मे
पूर्वा-फ़ल्गुनी मो टा टी टू
उत्तरा-फाल्गुनी - टे टो पा पी
हस्त - पू ष ण ठ
चित्रा - पे पो रा री
स्वाती - रू रे रो ता
विशाखा - ती तू ते तो
अनुराधा - ना नी नू ने
ज्येष्ठा - नो या यी यू
मूल - ये यो भा भी
पू०षा० - भू ध फ ढ
उ०षा० - भे भो जा जी
श्रवण - खी खू खे खो
धनिष्ठा - गा गी गू गे
शतभिषा- गो सा सी सू
पूर्वा-भाद्रपद - से सो दा दी
उत्तरा-भाद्रपद - दू थ झ ञ
रेवती - दे दो च ची
राशयः -
१ मेषः, २ वृषः ३ मिथुनः ४ कर्कः, ५ सिंहः ,६ कन्या,
७ तुला, ८ वृश्चिक , ९ धनु, १० मकर, ११ कुम्भ,१२ मीन
नमस्कार:
अद्यतनीयां कक्ष्यायां वयं शब्दरूपाणां प्रयोगं पठाम:।
शब्दरूपे प्राय: कर्ता, कर्मादिकै: सह नियोक्तव्यानां रूपाणां परिचय: भवति
अपि च धातुरूपाणि क्रियाया: कृते प्रयुज्यन्ते ।
अर्थात् वाक्यनिर्माणे क्रियातिरिक्तं अन्यत्र शब्दरूपाणां प्रयोग: भवति
केवलं क्रियाया: कृते एव धातुरूपाणां प्रयोग: क्रियते ।
उदाहरणम् - राम साइकिल से विद्यालय जाता है ।
उपर्युक्ते पदे 'जाना' इति क्रियापदमस्ति, अत: 'जाना' इति पदेन् सह धातुरूपाणां प्रयोग: क्रियते
अन्यपदेषु यथोचितं शब्दरूपाणां प्रयोग: भविष्यति ।
एवं विधा वाक्यं निर्माति - राम: साइकिल यानेन (द्विचक्रिकया) विद्यालयं गच्छति ।
अत्रापि ध्यातब्यमस्ति यत् पुलिंगं, स्त्रीलिंगं अपि च नपुंसकलिंगस्य शब्दानां रूपाणि पृथक्-पृथक् भवन्ति
किन्तु धातुरूपाणि सर्वत्र यथावत् एव चलन्ति ।
उदाहरणार्थम् - राम के पास साइकिल है - रामस्य पार्श्वे द्विचक्रिका अस्ति ।
रमा के पास साइकिल है - रमाया: पार्श्वे द्विचक्रिका अस्ति ।।
अत्र शब्दरूपं राम: रमाया: च रूपाणि षष्ठी विभक्ते: एकवचनानुसारं प्रयुज्यन्ते,
तस्यानुसारेण 'राम' शब्दस्य 'रामस्य' अपि च 'रमा' शब्दस्य 'रमाया:'इति रूपं अभवत् ।
किन्तु ''है'' इति शब्दस्य कृते उभयत्रैव 'अस्ति' इति प्रयोग: अस्ति ।
सर्वप्रथमं ''वह'' इति शब्दस्य पुलिंगशब्दरूपं प्रस्तोमि ।
विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा स: (वह) तौ (वे दोनो) ते(वे सब)
द्वितीया तम् (उसको) तौ (उन दोनो को) तान(उन सब को)
तृतीया तेन (उसके द्वारा) ताभ्याम् (उन दोनों के द्वारा) तै: (उन सबके द्वारा)
चतुर्थी तस्मै (उसके लिये) ताभ्याम (उन दोनों के लिये) तेभ्य: (उन सबके लिये)
पंचमी तस्मात् (उस से) ताभ्याम् (उन दोनो से) तेभ्य: (उन सब से)
षष्ठी तस्य (उसका) तयो: (उन दोनों का) तेषाम् (उन सब का)
सप्तमी तस्मिन् (उस में) तयो: (उन दोनो में) तेषु (उन सब में)
''वह'' इति शब्दस्य स्त्रीलिंगशब्दरूपम्
विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सा (वह) ते (वे दोनो) ता:(वे सब)
द्वितीया ताम् (उसको) ते (उन दोनो को) ता:(उन सब को)
तृतीया तया (उसके द्वारा) ताभ्याम् (उन दोनों के द्वारा) ताभि: (उन सबके द्वारा)
चतुर्थी तस्यै (उसके लिये) ताभ्याम् (उन दोनों के लिये) ताभ्य: (उन सबके लिये)
पंचमी तस्या: (उस से) ताभ्याम् (उन दोनो से) ताभ्य: (उन सब से)
षष्ठी तस्या: (उसका) तयो: (उन दोनों का) ताषाम् (उन सब का)
सप्तमी तस्याम् (उस में) तयो: (उन दोनो में) ताषु (उन सब में)
''वह'' इति शब्दस्य नपुंसकलिंगशब्दरूपम्
जयतु संस्कृतम्
।। अद्यतनीया: कक्ष्याया: कथमनुभवमासीत् इति कृपया वदन्तु ।।
भवतां निर्देशा: अपेक्षते ।
।। जयतु संस्कृतम् ।।
।। भवदीय:- आनन्द: ।।
विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा तत् (वह) ते (वे दोनो) तानि (वे सब)
द्वितीया तत् (उसको) ते (उन दोनो को) तानि (उन सब को)
तृतीया तेन (उसके द्वारा) ताभ्याम् (उन दोनों के द्वारा) तै: (उन सबके द्वारा)
चतुर्थी तस्मै (उसके लिये) ताभ्याम (उन दोनों के लिये) तेभ्य: (उन सबके लिये)
पंचमी तस्मात् (उस से) ताभ्याम् (उन दोनो से) तेभ्य: (उन सब से)
षष्ठी तस्य (उसका) तयो: (उन दोनों का) तेषाम् (उन सब का)
सप्तमी तस्मिन् (उस में) तयो: (उन दोनो में) तेषु (उन सब में)
अग्रिम कक्ष्यायां धातुरूपाणां विषये पठिस्याम:
अग्रिम कक्ष्यायां धातुरूपाणां विषये पठिस्याम:
।। अद्यतनीया: कक्ष्याया: कथमनुभवमासीत् इति कृपया वदन्तु ।।
भवतां निर्देशा: अपेक्षते ।
।। जयतु संस्कृतम् ।।
।। भवदीय:- आनन्द: ।।
नमो नमः
अत्र भवतां सर्वेषां अतीव स्वागतम् ॥ मम एषः सौभाग्यः यत् भवतां समक्षे किमपि वक्तुं अवसरः मया लब्धः ॥ तर्हि तदनुगुणं-
अद्य आरभ्य वयं ज्योतिष विषये क्रमशः चर्चां करिष्यामः ॥
वयं सर्वे जानीमः यत् भारते विज्ञानस्य तादृशी परम्परा आसीत् यत् दृष्ट्वा,पठित्वा वयं गौरवं अनुभवामः - तस्य वैज्ञानिकी-परम्परायां ज्योतिषं अपि आयाति॥ ज्योतिष अर्थात प्रकाशः एषः सामान्यार्थः विशेष-दर्शन शक्तिः नाम अपि ज्योतिषमिति ॥ शनैः-शनैः वयं यदा अस्य अभ्यासं करिष्यामः तदा अन्ये अर्थाः अपि अस्माकं मस्तिष्के आगमिष्यन्ति ॥
ज्योतिष-नामक शास्त्रे त्रीणि रूपाणि कथितानि - होरा, सिद्धान्त, संहिता च अत्र क्वचित् भेदाः अपि दृश्यन्ते परम् सः नैव अस्माकं विषयः ॥
तत्र होरा अन्तर्गते एव फलितम् इति॥ फलितम् नाम फल-ज्ञानम् ॥ किं च फल-ज्ञानम् ? अर्थात् कर्मणः फलम् प्रायशः अस्माकं मनसि एषा शङ्का अपि आयाति यत् कर्म प्रधानं व भाग्य प्रधानं ? अस्मिन विषये अपि ज्योतिष-शास्त्र सम्यक् निर्णयं ददाति ॥ अग्रे सः विषयः अपि समक्षे भविष्यति ॥
प्रथमं अस्माभिः प्रारम्भे चरणे ग्रहाणां नामानि ज्ञातव्यानि- सूर्यः चन्द्रः, भौमः,बुधः,गुरुः,शुक्रः,शनिः,राहुः,केतुः च एते ग्रहाःएव न केवलं आकाशे अपितु चराचरं प्रभावयन्ति ॥ अनन्तरं वयं नक्षत्राणां नामानि तेषां माध्यमेन राशि निर्माणं विषये च पठिष्यामः ॥
अस्माकं संस्कृतपरिवारे एक: नूतन: सदस्य: समाहित: लेखक रूपेण ।
एष: महाभाग: अस्ति श्री भूपेन्द्रपाण्डेयवर्य: ।।
एष: अस्माकं ज्योतिषज्ञानं वर्धयिष्यति ।
समये-समये वयं एतस्य मार्गदर्शनं प्राप्नुम: अथ च स्वग्रहविषयकानां शंकासमाधानमपि प्राप्नुम: ।।
अत: साम्प्रतं स्वागतं कुर्वन्तु अस्माकं ज्योतिषाचार्यस्य श्री भूपेन्द्रपाण्डेयवर्यस्य ।।
भूपेन्द्र जी, भवत: स्वागतमस्ति ।।
भवदीय:-आनन्द:
अद्य संस्कृतभाषायां लेखनाय यत् द्वितीयस्तरे सर्वाधिकमहत्वपूर्णं प्रकरणमस्ति तदस्ति लिंग-वचन प्रकरणम् ।
अत: अत्र लिंग-वचनयो: प्रस्तुति: क्रियते ।
एतयो: सह् एतेषां प्रयोग: कथं क्रियते एतदपि अत्र संक्षेपेण दीयते इति ।
लिंगानि त्रीणि भवन्ति
पुलिंगम् स्त्रीलिंगम् नपुंसकलिंगम्
उदाहरणम् -
राम: , रमा , फलम्
वचनानि अपि त्रीणि एव भवन्ति
एकवचनम् द्विवचनम् बहुवचनम्
राम: रामौ रामा:
रमा रमे रमा:
फलम् फले फलानि
अत्र राम: (पुलिंगम्) एकवचनमस्ति, रामौ (पुलिंगम्) द्विवचनमस्ति अपि च रामा: (पुलिंगम्) बहुवचनमस्ति
रमा (स्त्रीलिंगम्) एकवचनमस्ति , रमे (स्त्रीलिंगम्) द्विवचनमस्ति अपि च रमा: (स्त्रीलिंगम्) बहुवचनमस्ति
अस्मिन क्रमे एव
फलं (नपुंसकलिंगम्) एकवचनम् , फले (नपुंसकलिंगम्) द्विवचनमस्ति अपि च फलानि (नपुंसकलिंगम्) बहुवचनमस्ति ।।
वाक्यप्रयोगसमये यत् लिंगं यत् वचनं या च विभक्ति: विशेषणस्य भवति तद् लिंगं तद् वचनं सा च विभक्ति: विशेष्यस्य अपि भवति ।
यथा -
राम: उत्तमेन मित्रेण सह् विद्यालयं गच्छति
अत्र 'राम:' एकवचने अस्ति, तदनुसारमेव 'मित्रेण' अपि तृतीया एकवचनम् अस्ति अपि च मित्रस्य विशेषणं 'उत्तमेन' अपि तृतीया एकवचनमेव अस्ति ।
अग्रिम कक्ष्यायां वयं वचन-विभक्तीनां अध्ययनं करिष्याम:
अद्यतनं अलम्
जयतु संस्कृतम्
भवदीय: - आनन्द: