स्वागतमस्ति भवतां सर्वेषाम् संस्कृतलेखनप्रशिक्षणस्य प्रथमकक्ष्यायाम् ।
सर्वप्रथमं प्रार्थनां कुर्म:
पठामि संस्कृतं नित्य वदामि संस्कृतं सदा
ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम्
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं
संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम्
संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।।
अद्य आरभ्य वयं प्रकृष्ट रूपेण संस्कृतस्य लेखनस्य प्रशिक्षणं स्वीकुर्म:
वयं जानिम: यत् संस्कृतभाषा एका वैज्ञानिकी भाषा अस्ति । अत्र तदेव लिख्यते यत् पठ्यते अपि च तदेव पठ्यते यत् लिख्यते ।
अत: अद्य आरभ्य वयं एतस्या: वैज्ञानिकभाषाया: सम्यक लेखनं अवगच्छाम: ।
भवतां सर्वेषां कृते स्वातन्त्रं भविष्यति किमपि प्रष्टुम्, वक्तुं, वैचारिकसाहाय्यं कर्तुम् अपि च भाषागतसाहाय्यं कर्तुमपि ।
भवतां टिप्पणय: स्वागतार्ह: सन्ति ।
अथ प्रथमो अभ्यास:
कारक, विभक्ति प्रकरणम्
तृतीया - करणं - के द्वारा
चतुर्थी - सम्प्रदानं - के लिये
पंचमी - अपादानं - से
षष्ठी - सम्बन्ध:* - का/की/के
सप्तमी - अधिकरण - में/पर
अष्टमी** - सम्बोधनं*** - हे/अरे
** अष्टमी विभक्ति: नैव भवति ।
*** सम्बोधनं अपि कारकं नैव भवति ।
अत्र कानिचन् अवधेयानि सन्ति यत् क्रमश: दीयते ।
1- कारकाणि षट् एव भवन्ति ।
2- सम्बन्ध: कारकं न भवति ।
3- विभक्तय: सप्त भवन्ति ।
4- वाक्यनिर्माणसमये कारकविभक्तीनां सम्यक अवधानं देयं भवति ।
5- शब्दरूपाणां धातुरूपाणां च सम्यक प्रयोग: यथालिंगं भवेत् ।
अद्यतन गृहकार्यं
सम्यकतया कारकविभक्तीनां स्मरणं चिन्है: सह् करणीयम् अस्ति ।
शान्तिमन्त्रं वदाम: -
सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामय:
सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खभाग भवेत् ।।
जयतु संस्कृतम्
भवदीय: आनन्द:
ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्
संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् ।
संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।
पूर्वतनपाठ्यबिन्दूनाम् अभ्यासं कुर्म: ।
एष: राम:
एष: दशरथ: ।
राम: दशरथस्य पुत्र: ।
एषा लेखनी ।
एष: बालक: ।
एषा बालकस्य लेखनी ।
एतत् कमलपुष्पं ।
एतत् पत्रम् ।
एतत् कमलपुष्पस्य पत्रम् ।
अग्रे चलाम:
एष: शिशु: - यह शिशु है ।
एष: गर्त: - यह गड्ढा है ।
शिशु: गर्ते पतति - शिशु गड्ढे में गिरता है ।
एतानि वस्तूनि - ये वस्तुएँ हैं ।
एष: स्यूत: - यह झोला है ।
वस्तूनि स्यूते अस्ति - वस्तुएँ झोले में हैं ।
स: आनन्द: - वह आनन्द है ।
एष: प्रकोष्ठ: - यह कमरा है ।
आनन्द: प्रकोष्ठे वसति - आनन्द कमरे में रहता है ।
इत्येतावत् अलम्
गृहकार्यं
शान्तिमन्त्रं वदाम:
सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खभाग भवेत् ।।
नमो नम:
भवदीय: - आनन्द:
इति मम परममित्र-आनन्दपांडेयस्य अनुग्रह यत् अहं त्वत्सम्मुखे उपस्थितोस्मि ।
एकदा महाज्ञानसम्पन्न: आदि शंकराचार्य महाभागः अकथयत् ज्ञानम तत् भवन्त: विज्ञ-पुरुषा: जानन्ति न सन्देहमस्ति, न जानामि योगं, जपं नैव पूजा... ।
अहमपि संस्कृतभाषायां लेखनं न जानामि, इति सत्यम् इश्वरमेव।
पूर्वजन्मसंस्कारवशात् कतिपय वाक्यानि प्रादुर्भवन्ति मम हृदयगुहायाम् , किंतु जानाम्यहम यत् अभ्यासं परमपथम् ।
भवतां आशीर्वचनम् इच्छामि इति ।
.
सुपात्र दानाच्च भवेध्दनाढ्यो,
धनप्रभावेण करोति पुण्यम !
पुण्यप्रभावात्सुर लोकवासी,
पुनर्धनाढ्यः पुनरेव भोगी !!
तानिंद्रियाणि बिकलानि तदेव नाम,
सा बुद्धिर्प्रतिहता वचनं तदेव !
अर्थोष्मणा विरहितः पुरुषः सः एव,
बाह्यक्षणेन भवतीति विचित्रमेतत !!
अद्य अस्माकं स्वतन्त्रता दिवस: अस्ति । 1947 तमे वर्षे 15 अगस्त दिनांके एव अस्माकं देश: स्वातन्त्र्यं प्राप्तवान ।
अत: एष: दिवस: अस्माकं कृते सर्वदा महान दिवस: भवति ।
आगम्यतां अस्माकं शहीदजनानां स्मरणं कुर्म: ।
जय हिन्द
ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्
संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् ।
संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।
पूर्वतनपाठ्यबिन्दूनाम् अभ्यासं कुर्म: ।
एष: आपणिक: ।
एतानि वस्तूनि ।
राम: आपणिकात् वस्तूनि स्वीकरोति ।
स: मर्कट:।
स: वृक्ष: ।
मर्कट: वृक्षात् अवतरति ।
एते शिष्या:
एष: आचार्य:
शिष्या: आचार्यात् ज्ञानं स्वीकरोति ।
अग्रे चलाम:
एष: राम: - यह राम है
एष: दशरथ: - यह दशरथ हैं ।
राम: दशरथस्य पुत्र: - राम दशरथ के पुत्र हैं ।
एषा लेखनी - यह लेखनी है ।
एष: बालक: - यह बालक है ।
एषा बालकस्य लेखनी - यह बालक की लेखनी है ।
एतत् कमलपुष्पं - यह कमल का फूल है ।
एतत् पत्रम् - यह पत्ता है ।
एतत् कमलपुष्पस्य पत्रम् - यह कमलपुष्प (कमल) का पत्ता है ।
दशरथस्य- दशरथ का/की/के । बालकस्य- बालक का/की/के । कमलपुष्पस्य- कमल का/की/के
इत्येतावत् अलम्
गृहकार्यं
1- यह शिव का धनुष है।
2- यह पुष्प की वाटिका है ।
3- यह आम का वृक्ष है ।
4- यह कृष्ण का भाई है ।
शान्तिमन्त्रं वदाम:
सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामय:
सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खभाग भवेत् ।।
नमो नम:
भवदीय: - आनन्द:
केचन् दिवसा: गता: ब्लागवाणी संग्राहकस्य पिधानं जातमासीत् ।
वयं चिन्तितवन्त: आस्म: यत् कदाचित् काचित् नूतनीवाणी न आगच्छेत् ।
चेत् तस्य रिक्तस्थानस्य पूर्ति: हमारीवाणी इति संग्राहकेण कृता ।
किन्तु इदानीं पुन: एक: संग्राहक: जालपृष्ठजगति आगत: अस्ति ।
अस्य नाम अपनीवाणी इति अस्ति ।
अत: अत्र बलाघातं कृत्वा भवन्त: सर्वे अपनीवाणी पृष्ठसंग्राहके पंजीकरणं कारयित्वा लेखनस्य आनन्दं स्वीकुर्वन्तु ।
स्वागतं व्याहरामि अस्य संग्राहकस्य ।
अष्टम: अभ्यास: प्रकाश्यते ।
ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्
संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् ।
संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।
पूर्वतनपाठ्यबिन्दूनाम् अभ्यासं कुर्म: ।
एतत् धनम्
कृष्ण: आनन्दाय धनं ददाति ।
एषा बालिका
एषा पुस्तिका
बालिका बालकाय पुस्तिकां ददाति ।
एष: शिक्षक:
एतत् फलम्
शिक्षक: बालकाय फलं ददाति ।
अग्रे चलाम:
एष: आपणिक: - यह दूकानदार है ।
एतानि वस्तूनि - ये वस्तुएँ हैं ।
राम: आपणिकात् वस्तूनि स्वीकरोति - राम दूकानदार से वस्तुएँ लेता है ।
स: मर्कट: - वह बंदर है ।
स: वृक्ष: - वह पेड है ।
मर्कट: वृक्षात् अवतरति - बंदर पेड से उतरता है ।
एते शिष्या: - ये शिष्य हैं
एष: आचार्य: - ये आचार्य है
शिष्या: आचार्यात् ज्ञानं स्वीकरोति - शिष्य आचार्य से ज्ञान लेता है ।
आपणिकात् - दूकानदार से, वृक्षात् - वृक्ष से, आचार्यात् - आचार्य से ।
इत्येतावत् अलम्
गृहकार्यं
1- राम श्याम से पुस्तक लेता है।
2- आनन्द मनोज से धन लेता है ।
3- वृक्ष से फल गिरता है ।
4- रवि यान से गिरता है ।
शान्तिमन्त्रं वदाम:
सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामय:
सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खभाग भवेत् ।।
नमो नम:
भवदीय: - आनन्द:
अद्य मम जन्मदिवस : अस्ति ।
अहं भवतां सर्वेषां ज्येष्ठानां आशीर्वाद: शुभाषया: च इच्छामि ।
कृपया स्व शुभाषया: दत्वा अनुगृहणन्तु ।
अद्य अहम् अत्र भवतां कृते ते शब्दा: प्रकाशयामि यै: माध्यमेन भवन्त: शुभकामना: दातुं सिद्धा भविष्यन्ति ।
जन्मदिवसस्य शुभाषया:, शुभकामना: - जन्मदिन की शुभकामनाएँ ।
शतं वर्षाणि जीवतु - सौ वर्षों तक जियें ।
भगवत: कृपा भवतु भवत: उपरि - आपके उपर ईश्वर की कृपा हो ।
मनोकामना: सफली भवन्तु - मनोकामनाएँ पूर्ण हों ।
कुटुम्ब: वर्धेत् - परिवार खुशहाल होवे ।
सुखी भवतु - सुखी हों ।
निरामय: भवतु - निरोगी हों, स्वस्थ हों ।
जय: भवतु - विजयी होवें ।
यश: वर्धेत् - यश बढे, यशवान हों ।
चिरंजीवि भवतु - दीर्घायु होवें ।
अत्र सन्ति कानिचन् शुभाषयवाक्यानि, अद्य आरभ्य जनानां कृते, मित्राणां कृते, सुहृदानां कृते चापि एतानि वाक्यानि प्रयुज्यन्तु , किन्तु तत: अपि पूर्वं मम कृते भवतां शुभाषया: भवेत् ।
जय संस्कृतम्
सप्तम: अभ्यास: प्रकाश्यते ।
ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्
संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् ।
संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।
राम: जलं पिबति
राम: चसकेन जलं पिबति ।
सीता खादति
सीता भोजनं करोति
सीता चमसेन भोजनं करोति।
आनन्द: स्मरति
आनन्द: श्लोकं स्मरति
आनन्द: पुस्तकेन श्लोकं स्मरति ।
अग्रे चलाम:
एष: कृष्ण:
एतत् धनम्
कृष्ण: आनन्दाय धनं ददाति - कृष्ण आनन्द को धन देता है ।
एषा बालिका
एषा पुस्तिका
बालिका बालकाय पुस्तिकां ददाति - बालिका बालका को पुस्तिका देती है ।
एष: शिक्षक:
एतत् फलम्
शिक्षक: बालकाय फलं ददाति - शिक्षक बालक को फल देता है ।
इत्येतावत् अलम्
गृहकार्यं
1- राम श्याम को पुस्तक देता है।
2- आनन्द मनोज को धन देता है ।
3- शिक्षक बालक को ज्ञान देता है ।
शान्तिमन्त्रं वदाम:
सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामय:
सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खभाग भवेत् ।।
नमो नम:
भवदीय: - आनन्द: