संस्‍कृतगीतम्

Posted by Hindi2tech Sunday, May 9, 2010



मनसा सततं स्‍मरणीयम्
वचसा सततं वदनीयम् ।।
लोकहितं मम करणीयम् ।।

न भोगभवने रमणीयम्
न च सुखशयने शयनीयम्
अहर्निशं जागरणीयम्
लोकहितं मम करणीयम् ।।

न जातु दु:खं गणनीयम्
न च निजसौख्‍यं मननीयम्
कार्यक्षेत्रे त्‍वरणीयम्
लोकहितं मम करणीयम् ।।

दु:खसागरे तरणीयम्
कष्‍टपर्वते चरणीयम्
विपत्तिविपिने भ्रमणीयम्
लोकहितं मम करणीयम् ।।

गहनारण्‍ये घनान्‍धकारे
बन्‍धुजना ये स्थिता गह्वरे
तत्र मया संचरणीयम्
लोकहितं मम करणीयम्

1 Responses to संस्‍कृतगीतम्

  1. gayathri Says:
  2. भवतः ब्लोग् दृष्ट्वा संस्कृतलेखने प्रोत्साहितोऽहम्। ब्लोग् संयक् अस्ति।

     

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll