कस्मिन्श्चित् नगरे धनानन्दः नाम्ना कश्चन धनिकः आसीत् । किन्तु अतिकृपणः। एकदा नगरे महाभयङ्करः रोगप्रसारः अभवत् । पीडिताः नगरात् बहिः गत्वा न्यवसन् । औषधोपचाराः तु आवश्यकाः । साहाय्यम् अपि आवश्यकम् आसीत् । समीपे एव एकः साधुः निवसति स्म ।
"यदि धनिकाः धनदानं कुर्वन्ति तर्हि औषधोपचाराः निश्चयेन भविष्यन्ति ।" इति विचिन्त्य साधुः धनानन्दं प्रति गतवान् । प्रार्थनां कृतवान् ," निर्धनाः रोगप्रसारेण पीडिताः ।
भवान् धनिकः । भवतः साहाय्यम् आवश्यकम् । कृपया धनदानं करोतु।"
किन्तु धनानन्दः दानं न कृतवान् ।
"अस्तु। कृपया मह्यं १० सुवर्ण नाणकानि ददातु । सायङ्काले प्रतिदास्यामि ।"------साधुः अवदत्।
"कथम्?" आश्चर्येन धनानन्दः पृष्टवान् ।
"भवतः प्राप्तं धनं दर्शयित्वा अहम् इतरान् धनिकान् दानं कर्तुं प्रेरयिष्यामि । तदनन्तरं भवतः नाणकानि प्रतिदास्यामि । चिन्ता मास्तु ।"----- साधुः अवदत् ।
साधौ विश्वासं कृत्वा धनानन्दः तस्मै नाणकानि दत्तवान् ।
योजनानुसारं साधुः पर्याप्तं धनं प्राप्तवान् ।
कृपणेन धनानन्देन अपि दानं कृतम् इति मत्वा नगरस्य अन्यैः धनिकैः अपि साहाय्यं कृतम् । योजनानुसारं साधुः धनानन्दाय नाणकानि प्रतिदत्तवान् । किन्तु अहो आश्चर्यम्! धनानन्दः न् स्वीकृतवान् ।
साधुं नमस्कृत्य सः उक्तवान् - " मया साहाय्यं कृतम् इति मत्वा प्रातः आरभ्य बहवः जनाः मम गृहम् आगत्य अभिनन्दनं कृतवन्तः । यतः कृपणः इति मम ख्यातिः । १० सुवर्ण नाणकैः अहं दानानन्दं प्राप्तवान् ।भवान् दानानन्दस्य परिचयं कारितवान् । धनानन्दस्य अपेक्षया दानानन्दः श्रेष्ठः ।
धन्यवादः ।
कथा का हिन्दी संक्षेप
एक गाँव में धनानन्द नामक एक सेठ रहता था । उसके पास बहुत धन था पर वह उतना ही कंजूस भी था ।
एक बार गाँव में महामारी फैल गई ।
गाँव के लोगों ने एक साधू से उपचार पूछा
साधू ने कहा उपचार तो हो जाएगा पर धन की आवश्यकता पडेगी ।
साधू धनानन्द के पास गया और पैसे दान करने के लिये कहा ।
धनानन्द ने पैसे देने से मना कर दिया
साधु ने उससे कहा - तुम मात्र दस रूपये दो और शाम तक तुम्हे लौटा दूँगा ।
धनानन्द ने आश्चर्य व्यक्त करते हुए कहा कैसे -
साधु ने कहा इन पैसों को मैं अन्य लोगों को दिखाकर दान देने के लिये प्रेरित करूँगा ।
धनानन्द ने दस रूपये दे दिये ।
साधू काम पूरा करके शाम को धनानन्द को पैसे लौटाने के लिये गये
पर धनानन्द ने पैसे नहीं लिये
उसने कहा - लोगों ने दिन भर मुझे मेरे घर आकर धन्यवाद दिया है ।
महात्मन आप ने मुझे आज धनानन्द की अपेक्षा जनानन्द का महत्व बतला दिया ।।
निशा महोदयाया: मुहुर्मुहु: धन्यवादा: एतादृशी सुन्दरी, ज्ञानवर्धिनी च कथा प्रस्तोतुम् ।।