Posted by Hindi2tech Wednesday, November 17, 2010

 मया अपि अद्य श्रीअयोध्‍यापरिक्रमा कृता 


अद्य प्रात:काले पंचवादने उत्‍थाय अहं नित्‍यक्रिया निवृत्तं भूत्‍वा , स्‍नानादिकं कृत्‍वा सज्‍जी अभवं परिक्रमायां गन्‍तुम्  ।  श्री ज्‍येष्‍ठ पिता जी , ज्‍येष्‍ठामाता जी, बुआ जी अथ च फूफा जी सर्वे मया सह पादोन पंचवादने (5 बजे) श्रीअयोध्‍या परिक्रमामार्गे अव‍तरितवन्‍त:  ।  अस्‍माकं पदयात्रा प्रारम्‍भं अभवत्  ।  श्री ज्‍येष्‍ठपित्रा सह अहं स्‍वयात्रां 3 होरायां (घंटा) समापितवान्  । एतत् प्रथमवारम् आसीत् यत् अहं श्री भगवत: रामचन्‍द्रस्‍य 5क्रोशी परिक्रमां कृतवान्  ।  ह्य: मम मंगलवासरव्रतम् असीत् अत: म‍नसिं किंचित् भयम् आसीत् किन्‍तु भगवत: कृपया कष्‍टं अधिकं न अनुभूतम्  ।  सम्‍प्रति शरीरस्‍य गति: यत् किमपि अस्ति किन्‍तु मनसि सन्‍तोष: विद्यते  ।
भगवत: इच्‍छा भवेत् चेत् अग्रिम वर्षे अपि 5क्रोशी परिक्रमां तु अवश्‍यमेव करिष्‍यामि  ।   भवन्‍त: अपि भगवत: प्रदक्षिणां कृत्‍वा आत्‍मसन्‍तोषजन्‍यं लाभं स्‍वीकुर्वन्‍तु  ।
जय श्री राजा राम चन्‍द्र

0 comments

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll