एतेषु दिवसेषु अहं अयोध्यायाम् अस्मि । सम्प्रति अत्र अयोध्या मेला चलति । अत्र मया प्रतिदिनं श्री भगवत: श्री राम चन्द्रस्य मानसिक दर्शनं प्राप्यते । अद्य श्री हनुमानगढी अपि गतवान् आसम् । तत्र बहुजनसम्मर्द: असीत् । सहस्राधिका: अपि जना: दर्शनार्थं आगतवन्त: आसन् । एते दूरदेशेभ्य: आगत्य अत्रैव सम्पूर्ण मेला पर्यन्तं तिष्ठन्ति ।
14क्रोशस्य पुनश्च 5क्रोशस्य प्ररिक्रमणं प्रतिवर्षं भवति इति तु सर्वे जानन्ति एव । 14क्रोशस्य परिक्रमणं तु जातं ह्य: एव किन्तु इदानीं श्व: आरभ्य 5क्रोशस्य परिक्रमणं प्रारम्भमस्ति । एतत् परिभ्रमणं द्विदिवसात्मकं भवति । अस्मिन् वर्षे अहमपि प्रथम वारं परिक्रमायां भागं स्वीकरोमि भगवत: श्रीरामस्य प्रदक्षिणां कर्तुम् । श्व: प्रात:काले 4वादने जागरणं कृत्वा सर्वा: क्रिया: समाप्य साक्षात् परिक्रमामार्गे अवतरिष्यामि ।
भवतां स्मरणे स्यात् अक्टूबर 1992तमस्य वर्षस्य दृष्यं यदा मुलायमसिंह: परिक्रमां अवरोधितवानासीत् । तत: पूर्वं अथ च तत: अनन्तरम् अद्य पर्यन्तं कदापि परिक्रमा अवरोधिता न जाता , अग्रे अपि न भविष्यति इति मे आशा ।।
जय श्री राम
जय श्री अयोध्या जी
0 comments