Showing posts with label कृपण:. Show all posts
Showing posts with label कृपण:. Show all posts



कस्मिन्श्चित् नगरे धनानन्दः नाम्ना कश्चन धनिकः आसीत्  ।  किन्तु अतिकृपणः। एकदा नगरे महाभयङ्करः रोगप्रसारः अभवत्  ।  पीडिताः नगरात् बहिः गत्वा न्यवसन्  । औषधोपचाराः तु आवश्यकाः  । साहाय्यम् अपि आवश्यकम् आसीत्  । समीपे एव एकः साधुः निवसति स्म  ।
"यदि धनिकाः धनदानं कुर्वन्ति तर्हि औषधोपचाराः निश्चयेन भविष्यन्ति  ।" इति विचिन्त्य साधुः धनानन्दं प्रति गतवान्  ।  प्रार्थनां कृतवान् ," निर्धनाः रोगप्रसारेण पीडिताः  ।
भवान् धनिकः  । भवतः साहाय्यम् आवश्यकम्  । कृपया धनदानं करोतु।"
किन्तु धनानन्दः दानं न कृतवान्  ।
"अस्तु। कृपया मह्यं १० सुवर्ण नाणकानि ददातु  । सायङ्काले प्रतिदास्यामि  ।"------साधुः अवदत्।
"कथम्?" आश्चर्येन धनानन्दः पृष्टवान्  ।
"भवतः प्राप्तं धनं दर्शयित्वा अहम् इतरान् धनिकान् दानं कर्तुं प्रेरयिष्यामि  ।  तदनन्तरं भवतः नाणकानि प्रतिदास्यामि  । चिन्ता मास्तु  ।"----- साधुः अवदत् ।
साधौ विश्वासं कृत्वा धनानन्दः तस्मै नाणकानि दत्तवान्  ।
योजनानुसारं साधुः पर्याप्तं धनं प्राप्तवान्  ।
कृपणेन धनानन्देन अपि दानं कृतम् इति मत्वा नगरस्य अन्यैः धनिकैः अपि साहाय्यं कृतम्  । योजनानुसारं साधुः धनानन्दाय नाणकानि प्रतिदत्तवान्  । किन्तु अहो आश्चर्यम्! धनानन्दः न् स्वीकृतवान्   ।
साधुं नमस्कृत्य सः उक्तवान् - " मया साहाय्यं कृतम् इति मत्वा प्रातः आरभ्य बहवः जनाः मम गृहम् आगत्य अभिनन्दनं कृतवन्तः  । यतः कृपणः इति मम ख्यातिः  । १० सुवर्ण नाणकैः अहं दानानन्दं प्राप्तवान्  ।भवान् दानानन्दस्य परिचयं कारितवान्  । धनानन्दस्य अपेक्षया दानानन्दः श्रेष्ठः  ।
धन्यवादः  ।

check this

Subscribe via email

Search