सर्वेषां जनानां कृते प्रकाशपर्व:  'दीपावली '' मंगलं भवेत् । 
अस्मिन् अवसरे इदं विचारणीयम् अस्ति यत् किं वयं तमस् पथनिवारणार्थं  किंचित् अपि जागृतं स्‍म: ।
वयं प्रतिदिनं भ्रष्‍टाचारं निन्दयाम:  किन्तु तस्‍य निरोधनाय किंचित् अपि प्रयासं न कुर्म: ।।  
वयं स्व कार्यं समयेन  न कुर्म: ।  वयं सर्वकारीय कार्यालयानां वाहनानि प्रतिदिनं स्वकार्यार्थं उपयोगं कुर्म: । 
विद्युतस्‍य सम्‍यक् प्रयोगं न कुर्म: अपितु अनुचित साधनानां उपयोगं कुर्म: ।  
अहं अस्मिन् अवसरे निवेदयामि यत्  सम्‍प्रति राष्‍ट्रसेवार्थं संकल्‍पं स्‍वीकुर्म:,  एवं प्रकारेण भ्रष्‍टाचारं न प्रसारयाम: । 



हिन्‍दीभाषायां पठितुमत्र आघात: करणीय:


संकेतम् - ॐ अग्निमीळे पुरोहितं यज्ञस्‍य देवमृत्विजम् । होतारं रत्‍नधातमम् ।। (ऋग्‍वेद- 1/1/1 )


वयं तत्‍य अग्‍ने: स्‍तुतिं कुर्म: य: देव: पुरोहित (यज्ञकर्तु: कृते) , देवता (अनुदानकर्तु: कृते), ऋत्विज (यज्ञसम्‍पादनकर्तु: कृते) , होता ( आवाहनकर्तु: कृते) अथ च याजकेभ्‍य: धनरत्‍नादिकं ददाति ।।


विशेष: - ऋग्‍वेदस्‍य प्रथमं सूक्‍तं अग्निदेवस्‍य कृते स‍मर्पितम् अस्ति , अनेनेव ज्ञायते यत् वैदिक काले एव अग्नि देवस्‍य माहात्‍म्‍यं ज्ञातम् आसीत् । अग्नि: विश्‍वस्‍य सर्वप्रथम: आविष्‍कार: आसीत् । अस्‍य प्रथमप्रयोग: भारतदेशे एव अभवत् । अस्‍य उत्‍पत्ति: कथं जातम् इत्‍यपि विषये वेदे दत्‍तमस्ति यस्‍य वर्णनं क्रमश: भविष्‍यति । 


पृथ्वी, मही, वसुधा, धरित्री, मेदिनी, धरणी, धरा, 
भूः, भूमि, क्षिति, उर्वी, क्षमा, क्षोणि, एवं च वसुंधरा ।
ऊषर, मरु:, धन्वा, स्थलम्, खिल, स्थान, क्षेत्रं, प्रान्तरम् ।।
केदार, सैकत, मृत्तिका, बिल, क्षिद्र, रेणु:, समतलम् ।। 
वन, विपिन, शार्कर, जनपद, गर्त, धूलि:, काननम ।। 
उद्घातिनी, रज, शर्करा, मृत, बालुका अथ च विष्टपम ।।



केंद्रसर्वकारस्य कार्यलयानां भ्रष्टाचारनिरोधनार्थं केवलं सप्ताहपर्यन्तं एव   विविधि कार्यक्रमान् दर्शिता: ।
     अस्मिन् अवसरे विविधिबक्तब्यान् घोषिता: च ।
अत्र एकः प्रश्नः  विचारणीयः .....
किं वयं स्वतंत्रभारतस्य नागरिका: भ्रष्‍टाचारनिरोधनार्थं केवलं एकसप्ताहपर्यन्तम् एव प्रयासं कुर्म:, इत्‍येव अलं किल ??
किं वयं अनेन् अवसरे अस्य संपादनार्थं जीवनपर्यन्‍तम् एष: संकल्प: न धारयाम: ??



आदरणीय संस्‍कृतजालपुटलेखका:
सस्‍कृतस्‍य जालजगति प्रसाराय भवतां सर्वेषां सहयोग: महद्भूत: धन्‍यवादार्ह: च
सम्‍प्रति जालजगति अपि संस्‍कृतस्‍य लेखा: दृष्‍न्‍ते प्रायश: इत्‍यपि महत् हर्षस्‍य विषय:
किन्‍तु चेदपि अस्‍माकं दायित्‍वं इदानीमपि समाप्‍तं नास्ति ।।
अस्‍माभि: इदानीमपि इतोपि प्रयास: करणीय: येन जालजगति संस्‍कृतस्‍य लेखा: प्रायश: आगच्‍छेयु:

सम्‍प्रति एका सूचना अस्ति
गत त्रि दिवसेभ्‍य: अहं ज्‍वरपीडितोस्मि अ‍त: चिकित्साकार्यार्थं गच्‍छन् अस्मि
;मम आगमने सम्‍भवत: 7-8 दिवसा: लगिष्‍यन्ति ।
तावत् संस्‍कृतस्‍य लेखानां अभाव: न भवेत् एतदर्थं भवन्‍त: सर्वे प्रतिदिनं न्‍यूनातिन्यूनं एकं एकं लेखं प्रेषयन्तु ।।

अहं श्री प्रतुल महोदयाय धन्‍यवादं ददामि यत् स: प्रतिदिनं प्रतिद्वितीयदिनं वा एक: लेख: अवश्‍यं प्रेषयति
एवमेव भवन्‍त: सर्वेपि प्रतिदिनं एकं लेखं अवश्‍यमेव प्रेषयन्‍तु इति मे अभिलाषा, निवेदनं च ।।

संस्‍कृतकार्याय स्‍व अमूल्‍यसमयं दातुं भवतां सर्वेषां हार्दिक: धन्‍यवाद:

--
भवदीय: - आनन्‍द:

शुक्लांबरधरविष्णुं शशिवर्णं चतुर्भुजं ।
प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशांतये ।

शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदऋशं मेघवर्णं शुभांगं
लक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं ।

शत्रोरपि गुणा वाच्या, दोषा वाच्या गुरोरपि |



check this

Subscribe via email

Search