हिन्दीभाषायां पठितुम् अत्र बलाघात: करणीय:
सर्वेषां कृते नमो नम:
अद्य वयं दूरस्थ, निकटस्थ च वस्तूनां कृते सम्बोधनं पठाम: ।
सर्वप्रथमं प्रार्थनां कुर्म: ।
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा
ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्
संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् ।
संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।
इदानीं पूर्वतन् पाठ्यबिन्दूनां पुनराभ्यासं कुर्म:।।
मम ग्रामस्य नाम ईशपुर अस्ति ।
भवत:/भवत्या: ग्रामस्य नाम --------- ?
अहं फैजाबाद नगरत: अस्मि ।
भवान/भवती --------- नगरत: अस्ति ?
मम प्रदेशस्य नाम उत्तरप्रदेश: - ।
भवत:/भवत्या: प्रदेशस्य नाम --------- ?
मम देशस्य नाम भारतदेश: ।
भवत:/भवत्या: देशस्य नाम ---------?
अहं संस्कृतभारती संस्थायाँ कार्यं करोमि ।
भवान/भवती --------- ?
मम पिता वित्तकोषस्य प्रबन्धक: अस्ति ।
भवत: पिता --------- ?
अथवा
भवत: पितु: व्यवसाय:--------- ?
मम माता गृहणी अस्ति ।
भवत: मातु: व्यवसाय: --------- ?
मम पत्र संकेत: (ईशपुर, महबूबगंज, जिल्ला- फैजाबाद) इति अस्ति ।
भवत:/भवत्या: पत्र संकेत: --------- ?
मम जालपुटसंकेत: pandey.aaanand@gmail.com अस्ति ।
भवत:/भवत्या: जालपुटसंकेत: --------- ?
मम जालपृष्ठसंकेत: http://sanskrit-jeevan.blogspot.com/ अस्ति ।
भवत: जालपृष्ठसंकेत:--------- ?
मम चलभाषसंख्या 9721519904 अस्ति ।
भवत:/भवत्या: चलभाषसंख्या --------- ?
इदानीं अग्रे सराम:
स: बालक: - वह बालक है ।
स: क: - वह क्या/कौन है ?
क: स: - वह क्या/कौन है ?(पुलिंग)
सा बालिका - वह लडकी है ।
सा का/ का सा - वह क्या/कौन है ?(स्त्रीलिंग)
तत् व्यजनम् - वह पंखा है ।
तत् किम्/किम् तत् - वह क्या/कौन है ? (नपुंसकलिंग)
एष: बालक: - यह बालक है ।
एष: क:/ क: एष: -यह कौन/क्या है ? (पु0)
एषा बालिका - यह लडकी है ।
एषा का/ का एषा - यह कौन/क्या है ? (स्त्री0)
एतत् व्यजनम् - यह पंखा है ।
एतत् किम्/ किम् एतत् - यह कौन/क्या है ? (नपु0)
अद्यतनं अलं ।
सम्प्रति गृहकार्यं
अ़द्यतनं पाठ्यबिन्दूनां एकं अभ्यासं मह्यम जालसदेशद्वारा प्रेर्षयन्तु ।।
शान्तिमन्त्रं वदाम:
सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामय:
सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खभाग भवेत् ।।
नमो नम:
स्वागतं भवतां संस्कृतप्रशिक्षणकक्ष्याया: द्वितीयअंके ।
अद्यापि वयं परिचयं स्वीकर्तुमेव अवगच्छाम: ।
सर्वप्रथमं प्रार्थनां कुर्म: ।
हस्तौ योजयाम:।
वदाम: --
पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा
ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्
संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् ।
संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन
आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।
सम्प्रति सर्वप्रथमं पूर्वतनपाठ्यबिन्दूनां पुनरभ्यासं कुर्म: ।
सर्वेषां कृते स्वागतम् -
मम नाम -
भवत:/भवत्या: नाम ?
मम पितु: नाम -
भवत:/भवत्या: पितु: नाम ?
मम मातु: नाम -
भवत:/भवत्या: मातु: नाम ?
मम ----------- भ्रातर: ।
भवत:/भवत्य: कति भ्रातर: ?
मम ----------- भगिन्य: ।
भवत:/भवत्य: कति भगिन्य: ?
अहं ------- (व्यवसाय: )
भवान क: ?
भवती का ?
उपर्युक्तपाठ्यबिन्दूनाम् अभ्यासं लिखित्वा कुर्म: ।
स्वमित्राणि स्वपरिचयं जालसंदेशमाध्यमेन प्रेर्षयाम: ।
अग्रे सराम: ।----------
मम ग्रामस्य नाम ईशपुर अस्ति - मेरे गाँव का नाम ईशपुर है ।
भवत:/भवत्या: ग्रामस्य नाम किम् - आपके गाँव का क्या नाम है ?
अहं फैजाबाद नगरत: अस्मि - मैं फैजाबाद शहर से हूँ ।
भवान/भवती कुत: - आप कहाँ से हैं ?
मम प्रदेशस्य नाम उत्तरप्रदेश: - मेरे प्रदेश का नाम उत्तर प्रदेश है ।
भवत:/भवत्या: प्रदेशस्य नाम किम् - आपके प्रदेश का नाम क्या है ?
मम देशस्य नाम भारतदेश: - मेरे देश का नाम भारत है ।
भवत:/भवत्या: देशस्य नाम किम् - आपके देश का क्या नाम है ?
अहं संस्कृतभारती संस्थायाँ कार्यं करोमि - मैं संस्कृतभारती संस्था में काम करता हूँ ।
भवान/भवती कुत्र कार्यं करोति - आप कहाँ कार्य करते हैं ?
मम पिता वित्तकोषस्य प्रबन्धक: अस्ति - मेरे पिताजी बैंक मैनेजर हैं ।
भवत: पिता किं करोति - आपके पिता जी क्या करते हैं ?
अथवा
भवत: पितु: व्यवसाय: क: - आपके पिता का व्यवसाय क्या है ?
मम माता गृहणी अस्ति - मेरी माँ गृहणी (हाउस वाइफ) हैं ।
भवत: मातु: व्यवसाय: क: - आपकी माँ क्या करती हैं ?
मम पत्र संकेत: (ईशपुर, महबूबगंज, जिल्ला- फैजाबाद) इति अस्ति - मेरा पता (ईशपुर, महबूबगंज, जिला- फैजाबाद) है ।
भवत:/भवत्या: पत्र संकेत: क: - आपका पता क्या है ?
मम जालपुटसंकेत: pandey.aaanand@gmail.com अस्ति - मेरा ईमेल आईडी pandey.aaanand@gmail.com है ।
भवत:/भवत्या: जालपुटसंकेत: क: - आपका ईमेल आईडी क्या है ?
मम जालपृष्ठसंकेत: http://sanskrit-jeevan.blogspot.com/ अस्ति मेरा वेबसाईट/ब्लाग आईडी http://sanskrit-jeevan.blogspot.com/ है ।
भवत: जालपृष्ठसंकेत: क: - आपका वेबसाईट/ब्लाग आईडी क्या है ?
मम चलभाषसंख्या 9721519904 अस्ति - मेरा मोबाईल नम्बर 9721519904 है ।
भवत:/भवत्या: चलभाषसंख्या का - आपका मोबाईल नम्बर क्या है ?
अद्यतनीयं अलं ।
अद्यतनं गृहकार्यं -----------
भवतां कृते मम एकं नम्रनिवेदनं अस्ति, कृपया एतेषां बिन्दूनां लिखित्वा अभ्यासं कुर्वन्तु ।
शान्तिमंत्रं वदाम:
सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामय:
सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खभाग भवेत् ।।
नमो नम:
जयतु संस्कृतम्
भवदीय: - आनन्द:
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय:
भवतां सर्वेषाम् अस्यां सम्भाषणकक्ष्यायां स्वागतमस्ति ।
अस्य प्रशिक्षणस्य प्रारम्भ: सर्वप्रथम विद्यादेवि सरस्वती मातु: अर्चनात: प्रारभ्यते ।
अत: सर्वप्रथमं स्व संगणकयन्त्रे सरस्वतीमातु: चित्रम् उद्घाटयन्तु ।
साम्प्रतं मया सह हस्तबन्धनं कृत्वा अपि च मुखोद्घाटनं कृत्वा निम्नोक्त प्रार्थनां अनुवदन्तु ।
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ।
या ब्रह्माच्युतशंकरप्रभृतिभिर्दे
शुक्लां ब्रह्मविचारसारपरमामाद्यांजगद्
हस्तेस्फाटिकमालिकांविदधती पद्मासने संस्थितां ।
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।
इदानीं किंचित् पुष्पं स्वीकृत्य सरस्वती मातु: प्रतिमायां पुष्पार्पणं करिष्यन्ति, सुगन्धवर्तिका च ज्वालयिष्यन्ति ।
अधुना कक्ष्याया: प्रारम्भ: कृयते ।।
अद्य परिचयस्वीकरणं, परिचयदानं च पठाम: ।।
सर्वेषां कृते स्वागतम् - सब का स्वागत है ।
मम नाम आनन्द: - मेरा नाम आनन्द है ।
भवत: नाम किम् - आपका क्या नाम है (पुरूष) ?
भवत्या: नाम किम् - आपका क्या नाम है (महिला) ?
मम पितु: नाम श्री अनिरूद्धमुनिपाण्डेय: - मेरे पिता का नाम श्री अनिरूद्धमुनि पाण्डेय है ।
भवत:/भवत्या: पितु: नाम किम् - आपके पिता का नाम क्या है ?
मम मातु: नाम श्रीमती इन्दुलता पाण्डेय - मेरी माँ का नाम श्रीमती इन्दुलता पाण्डेय है !
भवत:/भवत्या: मातु: नाम किम् - आपकी माँ का क्या नाम है ?
अहं शोधार्थी/विद्यार्थी/गायक:/वादक: - मैं शोधार्थी/विद्यार्थी/गायक/वादक हूँ ।
भवान क: - आप कौन/क्या हैं ?
भवती का - आप कौन/क्या हैं
मम द्वौ भातरौ स्त:/ त्रय: भातर: सन्ति - मेरे दो/तीन भाई हैं ।
भवत:/भवत्या: कति भ्रातर: सन्ति - आपके कितने भाई है ?
मम द्वे भगिन्ये/तिस्र: भगिन्य: सन्ति - मेरी दो/तीन बहने हैं !
भवत:/भवत्या: कति भगिन्य: सन्ति - आपकी कितनी बहने हैं ?
अद्यतन कृते एतावत् एव पर्याप्तं, साम्प्रतम् अद्यतन गृहकार्यं
भवन्त: स्व-स्व परिचयं लिखित्वा मह्यं जालसंदेशं प्रेषयिष्यन्ति ।
अग्रिम अभ्यासाय भवन्त: कियति सज्ज: सन्ति इति भवतां जालसंदेशा: टिप्पणय: च वदिष्यन्ति ।।
शान्तिमन्त्रं वदाम:
सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामय:
सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खभाग भवेत् ।।
नमो नम:
जयतु संस्कृतम्
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय:
अस्तु मित्राणि यथा अहं निश्चयं कृतवान् आसम, भवतां संस्कृतकक्ष्याया: पाठ्यक्रम: सज्जीकृतवान्
किन्तु अहं एतस्य प्रकाशनं करवाणि तत: पूर्वं किंचित् अवधेयतथ्यानाम् उद्घाटनं कर्तुम् इच्छामि ।
अहं सर्वं लिखानि किन्तु भवतां लाभ: न भविष्यति यावत् पर्यन्तं भवन्त: एतानि तथ्यानि स्वजीवने न आचरिष्यन्ति ।।
1- सर्वप्रथमं तु अहं यत् किमपि प्रस्तोमि तस्य वाचा अभ्यास: कुर्यु:, दैनिकजीवने प्रयोगं चापि परमावश्यकमस्ति ।
2- अद्य आरभ्य एव स्वदैनिक व्यवहारभाषायां शुद्धहिन्दीभाषाया: शब्दानां प्रयोगं कुर्म:, आंग्लं अधिकाधिकं त्यजाम: ।।
3- संस्कृतस्य शब्दकोश:, विशेषकरं दैनिकप्रयोगवस्तुनां कृते संस्कृतशब्दानामेव प्रयोग: ।।
4- सर्वोपयोगी वार्ता, प्रतिदिनं संस्कृते किंचित् लेखनं अपि च संस्कृतलेखानाम् अध्ययनम् ।।
उपरोक्तवार्तायांमुपरि अवधानं ददतु, संस्कृतभाषाविज्ञ: भवन्तु ।।
गत दिवसेषु अहं संस्कृतभाषाया: प्रसाराय संस्कृतप्रशिक्षणं दातुं मम अस्य नूतन जालपुटस्य निर्माणं कृतवान्
चिन्तितवान् आसम् यत् जनानां रूचि: वर्धिष्यते अथ च सम्भवत: जना: संस्कृतं बोधितुम् अपि इच्छाप्रकटनं करिष्यन्ति ।
किन्तु संस्कृतं ज्ञातुं तु इच्छा नैव दृष्ट: अपितु पठितुमपि रूचि: न दृष्यते।
अयि भो: पाठनं तु नास्ति एव, अहं चिन्तयामि यत् अत्र जनानां सम्भवत: आगमनम् अपि नैव भवति ।
एकदा तु चिन्तने आगत: यत् केवलं संस्कृते लेखनं एव चलेत्।
यतोहि प्रशिक्षणाय तु न्यूनाति न्यूनं दश-पंचदश जना: तु भवेयु: एव ।।
किन्तु मम एतस्य विचारस्योपरि मम केचन् भ्रात्रृणां प्रेम बलीयसी अभवत् ।।
मम अस्य जालपुटस्योपरि आगमनं न्यूनजनानाम् एव भवतु किन्तु ते सन्ति संस्कृतानुरागिण: ।
तेषां श्रद्धा अपि अद्भुता एव ।
अत: अहं तेषां कृते एव संस्कृतप्रशिक्षणस्य प्रारम्भ: करोमि ।
अग्रिम लेखत: संस्कृतस्य प्रशिक्षणं प्रारभ्यते।
भवन्त: सादरम् आमन्त्रिता: सन्ति।
भवतां संस्कृतश्रद्धा चिरकालपर्यन्तं यथावत् तिष्ठेत् , इति मे शुभाषा ।।
भवदीय: - आनन्द:
।। हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: ।।
भवन्त: मम एतै: विचारै: पूर्णरूपेण साम्यं धृतं स्यु: यत् संस्कृतभाषा सर्वाषु भाषासु जननी अस्ति ।
चेत् अद्य पर्यन्तं वयम् अस्माकं अस्या: मातु: अपि मातु: कृते किं कृतवन्त: इति विचारणीय: ।
बन्धु । मातु: अपि मा इति एतदर्थं यत् यदि वयं स्वस्थानीयां भाषां मा इति संज्ञया विधीये चेत् तस्या: अपि जन्मदात्री भाषा तु अस्माकं पितामही अभवत् एव खलु।
अस्तु तर्हि अहं वदत् आसम् यत् अस्माकं मातामह्या: कृते अद्य पर्यन्तं वयं किं कृतवन्त: किं कदापि चिन्तितम् अस्माभि:।।
नैव ।
चेत् अद्य चिन्तयाम: ।।
अपितु अहं तु वच्मि यत् न केवलं चिन्तयाम: अपितु अद्य आरभ्य एव संस्कृत भाषायाम् लेखनम् एव प्रारम्भं कुर्म: ।।
अलं चिन्तनेन , अधिकं न वरं चिट्ठाजगति यत् टिप्पणय: कुर्म: केवलं तावत् एव संस्कृते लिखाम: चेत् अपि वरम् ।
अत्र केचन् सामान्यशब्दानां संस्कृतानुवाद: ददामि । अधिकतरं वयं टिप्पणय: एवम् एव लिखाम: ।
तर्हि साम्प्रतं संस्कृते एव टिप्पणय: प्रारम्भं भवेत् ।
शोभनम्/ समीचीनम्/ सुन्दरम्/ उत्तमम् - बहुत सुन्दर, उत्तम ।
उत्तम: प्रयास: - सुन्दर प्रयास
शोभनं काव्यम् - उत्तम कविता
शोभना गज्जलिका - सुन्दर गजल
सुन्दरी अभिव्यक्ति: - सुन्दर भावों की अभिव्यक्ति ।
धन्यवाद: - धन्यवाद
प्रसंशनीय:/ साधुवादार्ह: - प्रसंशा के योग्य
उत्तमा सूचना - उत्तम सूचना
उपयोगी तथ्यानि - उपयोगी सूचना
अवर्णनीयम् - लाजबाब
अद्य आरभ्य एव संस्कृत मातु: सेवायां संलग्नो भवाम: । यत्र काठिन्यम् आगच्छति, तत्र भवन्त: स्व शब्दान मह्यम ईमेल माध्यमेन प्रेर्षयन्तु अहं तस्य संस्कृतानुवाद: प्रस्तोमि ।।
संस्कृते लेखनं प्रारम्भं कृत्वा भारतीय संस्कृते: रक्षणाय स्व सहयोगं ददतु ।
धन्यवादा: भवतां सर्वेषां कृते
भवदीय: - आनन्द:
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय:
प्रस्तुतोमि तत् दृष्यं यद्दृष्ट्वा सर्वे भारतीया: प्रसन्नतामनुभविष्यन्ति । भवन्त: चिन्तयन् सन्ति यत् तावत अहं किं दर्शयितुम् इच्छामि । स्वयमेव पश्यन्तु ।
अस्ति एतत् दृष्यं लखनउनगरस्य, निरालानगरक्षेत्रस्य शिशुमन्दिरे आयोजितस्य 10 दिवसीयसंस्कृतआवासीयप्रशिक्षणशिविररस्य , यत्र सम्भवत: 250 प्रशिक्षार्थय: 10 दिवसपर्यन्तं संस्कृतसम्भाषणस्य शिक्षां गृहीतवन्त:।
शिविरआयोजनस्य नवमे दिने नगरभ्रमणम् आयोजितम् , सरस्वतीशिशुमन्दिरत: श्रीरामकृष्णमठम् । वदतु संस्कृतम्, जयतु भारतम् । जयतु जयतु संस्कृत भाषा, वदतु वदतु संस्कृतभाषा । ग्रामे ग्रामे नगरे नगरे संस्कृत भाषा इति उद्घोषात् सम्पूर्ण विश्व जनु गुंजायमान: आसीत् ।
शिविरायोजनस्य दशमे दिने प्रात: 3वादने भारतमातु: मानचित्रे सर्वे छात्रा: शिक्षका: च पुष्पार्पणं कृतवन्त: । भारतमातु: मानचित्रं दीपै: सज्जितं कृतम् । भवन्त: अस्मिन् चित्रे भारतमातु: पवित्रविग्रह: द्रष्टुं शक्नुवन्ति ।
सार्धं भोजनं कुर्वन्त: छात्रा:।
अनेन प्रकारेण एतत् 10 दिवसस्य संस्कृतप्रशिक्षणशिविरं सुन्दरतया सफलतया च समाप्तम् अभवत् । अस्य शिविरस्य प्रथमे दिवसे यत्र कस्यचित् अपि मुखात् सम्यकतया संस्कृतस्य एक: शब्द: अपि न आगच्छत् आसीत तत्रैव समापनकार्यक्रमे प्राय: सर्वे प्रशिक्षार्थिन: संस्कृते एव स्वविचारान् प्रकटितवन्त: । अनेन प्रकारेण शिविरायोजनं सर्वथा सफलं आसीत् , अस्य प्रमाणस्वरूपं ते प्रशिक्षार्थिन: सन्ति ये अत्र प्राँगणे विभिन्नप्रकारेण सोत्साहं संस्कृताभ्यास कुर्वन्त: सन्ति ।
अत्र केचन जालपुटसंकेतान् दीयते यत्र बलाघातं कृत्वा भवन्त: तानि चलचित्राणि द्रष्टुं शक्नुवन्ति येषु संस्कृताभ्यासे रता: सन्ति प्रशिक्षार्थिन:।
।। अभ्यासं कुर्वन्त: प्रशिक्षार्थिन: ।।
।। उच्चै: स्वरै: संस्कृतयात्रायां उद्घोषं कुर्वन्त: विद्यार्थिन: ।।
।। कार्यक्रमस्य समापनं भारतमातु: चरणयो: पुष्पार्चनं च ।।
भवतां विचाराणां स्वागतमस्ति अत्र, मम उत्साहवर्धनाय ।।










