Showing posts with label नूतनस्य आगमने पुरातनस्य उपेक्षा न भवेत् ।।. Show all posts
Showing posts with label नूतनस्य आगमने पुरातनस्य उपेक्षा न भवेत् ।।. Show all posts



अद्य 2010 वर्षस्‍य अंतिम-दिवस: अस्ति आंग्‍लपरंपरानुसारेण ।  अद्य रात्रौ एव द्वादश-वादन आरभ्‍य एव 2011 तमस्‍य वर्षस्‍य शुभारम्‍भ: भविष्‍यति  ।  वर्ष 2010 उपरमिष्‍यति ।  वयं सर्वे मिलित्‍वा मोदं करिष्‍याम:  ।  प्रात: पर्यन्‍तं आयोजनानि भविष्‍यन्ति  ।।
          स्‍व: आरभ्‍य पुन: ते एव सर्वे कार्यक्रमा:, तानि एव पुरातनानि कार्याणि  ।  नूतनवर्षम् अपि पुरातनसदृशम् एव गमिष्‍यति पुन: अग्रिमनूतनवर्षम्  ।  एवमेव वर्षाणि आगच्‍छन्ति गच्‍छन्ति च  ।  अस्‍माकं जीवनमं एवमेव गच्‍छति  ।  कदाचित् अपि वयं पुरातनवर्षस्‍य विषये न चिन्‍तयाम:  । 
          अवधानं भवेत् अस्मिन् विषये यत् वर्तमाने जीवतु , भविष्‍यस्‍य विषये चिन्‍तयतु किन्‍तु भूतकालस्‍य गतानां दिवसानां विस्‍मरणं कदापि न भवेत्  ।  यदि वयम् अस्‍माकं पूर्वकृतानां कार्याणां विषये वारं वारं चिन्‍तयाम: चेत् भविष्‍ये बहु किमपि नूतनं कर्तुं शक्‍नुम:  ।।
          सम्‍प्रति पुरातनं वर्षं प्रति स्‍व-भावश्रद्धांजलिं समर्प्य नूतन आंग्‍लवर्षस्‍य स्‍वागतं कुर्म:  ।।


check this

Subscribe via email

Search