Showing posts with label संस्‍कृतजगत: लेखकै: अनुरोध: ।।. Show all posts
Showing posts with label संस्‍कृतजगत: लेखकै: अनुरोध: ।।. Show all posts



आदरणीया: संस्‍कृतजगत: विद्वान्‍स: 
यथा वयं पश्‍याम: गतसु वर्षेसु जालजगति हिन्‍दीभाषाया: प्रभाव: वर्धित: ।
तत: पूर्वं जालजगति आंग्‍लभाषाया: एव वर्चस्‍वम् आसीत् ।
अस्‍माकं भारतदेशे तु हिन्‍दीभाषाया: अपि अधोगति: आसीत्  ।  एवं प्रतिभाति स्‍म यत् हिन्‍दीभाषाया: अपि गति: संस्‍कृतसदृशमेव भविष्‍यति किन्‍तु तदा एव जालजगति हिन्‍दीलेखकानां अवतरणं जातम्  ।  2001 तमे वर्षे कदाचित् हिन्‍दीभाषाया: अपि सा गति: आसीत् जालजगति या गति: अद्य संस्‍कृतस्‍य अस्ति  ।
तदा आसन् चत्‍वारि पंच जालपृष्‍ठा: केवलम्  ।
किन्‍तु जना: पराजयं न अंगीकृतवन्‍त: , प्रयासं वहन्‍त: अद्य हिन्‍दीभाषाया: लक्षाधिकी पृष्‍ठसंख्‍या जाता  ।
एवं विधा एव अद्य या गति: संस्‍कृतभाषाया: जालजगति अस्ति तां गतिं विचिन्‍त्‍य यदि वयं पराजयं मत्‍वा उपविशाम: चेत् संस्‍कृतस्‍य हानि: एव 
अत: अद्य अहं पुन: एकवारं भवतां सर्वेषां संस्‍कृतानुरागिणां आह्वानं करोमि यत् अद्य आरभ्‍य एव कृपया स्‍वसंकल्‍पं दृढीकृत्‍वा संस्‍कृतपृष्‍ठलेखने संलग्‍न: भवन्‍तु  ।
 निश्‍चयेन अस्‍माकं शुभसंकल्‍प: पूर्णं भविष्‍यति  ।

जयतु संस्‍कृतम्

check this

Subscribe via email

Search