Showing posts with label प्रहेलिका-कथा. Show all posts
Showing posts with label प्रहेलिका-कथा. Show all posts



प्रहेलिका

"तात, महेशपितृव्यः दूरवाणीं कुर्यात् चेत् तेन सह सम्भाषणं न करिष्यामि। कतिवारम् असत्यं वदनीयम् ? तातः गृहे नास्ति इति असत्यं किमर्थं वदनीयम् ?"

पितुः समीपे उत्तरं नासीत्। मालत्यै एवम् आचरणं कदापि न रोचते स्म। माता तु उपदिशति, सदैव सत्यमेव वदनीयम्। किन्तु तातः असत्यं वादयति। पयोहिमम् आनीय पित्रा पुत्रीं तोषयितुं प्रयासः क्रियते। तथापि मालती रुष्टा एव आसीत्।

गृहस्य रङगकर्म प्रचलितम् आसीत्। अतः प्रतिदिनं पाठशालां गच्छन्ती मालती सप्ताहान्तेSपि भ्रमणाय बहिः न गतवती। तेन सा जामिता अभवत्। महेशः वारंवारं दूरवाणीं कृतवान्। तेन सह वार्तालापं करणीयम् आपतितम्। तस्याः अनिच्छां दृष्ट्वा पिता स्पष्टीकृतवान् , "मालती, महेशः मम उत्तमम् मित्रम्। महेशेन नूतनं कारयानं क्रेतव्यम्। किन्तु पर्याप्तं धनं नास्ति। धनसाहाय्यम् इच्छति। अस्माकं गृहे रङगकर्म प्रचलति। अतः मया न शक्यते।अतः परिहारः।"
"महेशपितृव्याय एवं कथयतु।"-----मालती उक्तवती।
"न शक्यते।"---पिता अवदत्।
"किमर्थं न?"----मालती पृष्टवती।
तदैव दूरवाणीरवः जातः। मालती महेशम् अवदत् , " पितृव्य , आदौ मम प्रहेलिकां शृणोतु।
रङ्गकर्मणि रमते , किन्तु रङ्गमयः न भवति।
गृहे रमते तथापि गृहे नास्ति।
सत्यं वदति किन्तु सत्यं न भाति।
असत्यम् वक्तुं न इच्छति।
सः कः? जानाति वा?"

check this

Subscribe via email

Search