प्रहेलिका"तात, महेशपितृव्यः दूरवाणीं कुर्यात् चेत् तेन सह सम्भाषणं न करिष्यामि। कतिवारम् असत्यं वदनीयम् ? तातः गृहे नास्ति इति असत्यं किमर्थं वदनीयम् ?"पितुः समीपे उत्तरं नासीत्। मालत्यै एवम् आचरणं कदापि न रोचते स्म। माता तु उपदिशति, सदैव सत्यमेव वदनीयम्। किन्तु तातः असत्यं वादयति। पयोहिमम् आनीय पित्रा पुत्रीं तोषयितुं प्रयासः क्रियते। तथापि मालती रुष्टा एव आसीत्।गृहस्य रङगकर्म प्रचलितम् आसीत्। अतः प्रतिदिनं पाठशालां गच्छन्ती मालती सप्ताहान्तेSपि...
आदरणीया: संस्कृतजगत: विद्वान्स: यथा वयं पश्याम: गतसु वर्षेसु जालजगति हिन्दीभाषाया: प्रभाव: वर्धित: । तत: पूर्वं जालजगति आंग्लभाषाया: एव वर्चस्वम् आसीत् । अस्माकं भारतदेशे तु हिन्दीभाषाया: अपि अधोगति: आसीत् । एवं प्रतिभाति स्म यत् हिन्दीभाषाया: अपि गति: संस्कृतसदृशमेव भविष्यति किन्तु तदा एव जालजगति हिन्दीलेखकानां अवतरणं जातम् । 2001 तमे वर्षे कदाचित् हिन्दीभाषाया: अपि सा गति: आसीत् जालजगति या गति: अद्य संस्कृतस्य अस्ति । तदा आसन् चत्वारि पंच जालपृष्ठा: केवलम् । किन्तु...
दयामय ! देव ! दीनेषु दयादृष्टि: सदा देया ।प्रतिज्ञा दीन रक्षाया दयालो ! जातु नो हेया ।।मनुष्या मानवा भूत्वा इदानीं दानवा जाता: ।तदेषा मूढता देशाद् द्रुतं दूरे त्वया नेया ।।त्वदुपदेशामृतं त्यक्त्वा विपन्नो हन्त लोकोयं ।तदुद्धाराय चैतेषां प्रभो ! गीता पुनर्गेया ।।किमधिकं ब्रूमहे भगवन् ! विनीतप्रार्थनैकेयम् ।यदेते बालका: स्वीया: प्रभो नो विस्मृतिं नेया:...
धीरोदात्तस्य राज्ञः विषये एका भिन्ना कथा।राजा शूरः आसीत्। तत्वचिन्तकः अपि। नुतनेषु गहनेषु विषयेषु सदैव चिन्तयन् आसीत्। विद्वासाम् आद्रियते स्म।तैः सह विविधेषु विषयेषु चर्चां करोति स्म।एकदा प्रातः उत्थाय तस्य मनसि कश्चन विचारः आगतः। किञ्चित् चिन्तयित्वा सः पण्डितां सभागृहे निमन्त्र्य संबोधितवान्।"कृपया मह्यम् एकं विशिष्टं वाक्यं कथयतु। यत् श्रुत्वा हसन्तः हसनं स्थगयेयुः। रुदन्तः रोदनं स्थगयेयुः। मया बहु चिन्तितम्। किन्तु-----। भवत्सु कोSपि...
जय जय हे भगवति सुरभारति !तव चरणौ प्रणमाम: ।।नादतत्वमयि जय वागीश्वरि !शरणं ते गच्छाम: ।।1।।त्वमसि शरण्या त्रिभुवनधन्या सुरमुनिवन्दितचरणा ।नवरसमधुरा कवितामुखरा स्मितरूचिरूचिराभरणा ।।2।।आसीना भव मानसहंसे कुन्दतुहिनशशिधवले !हर जडतां कुरू बुद्धिविकासं सितपंकजरूचिविमले ! ।।3।।ललितकलामयि ज्ञानविभामयि वीणापुस्तकधारिणि ! ।।मतिरास्तां नो तव पदकमले अयि कुण्ठाविषहारिणि ! ।।4।।जय जय हे भगवति सुरभारति !तव चरणौ प्रणमाम:...
१- नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना, न चाभावयत:शान्तिरशान्तस्य कुत:सुखम.-६६ २- प्रसादे सर्व दु:खानां हानिरस्योपजायते प्रसन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते-६५ ३- रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन,अत्मवशयै:विधेयात्मा प्रसादमधिगच्छ...
पुरातनी कथा अस्ति ।काशीयात्रा करणीया नाम पूण्यकार्यं करणीयम् इति मानसिकता आसीत् । यात्रा सुकरा न। यतः प्रवासस्य इदानीम्तनम् साधनम् न आसीत् । विशालाः मार्गाः, मार्गे सुविधाः च न आसन् ।विष्णुदासः नाम्ना कश्चन अन्धः युवकः काशीयात्रां कर्तुम् इच्छुः आसीत् । किन्तु परिवारस्य, प्रतिवेशिनाम्, परिचितानाम् च अनुमतिः न आसीत् । एकत्र प्रवासः कठिनः अपरत्र सः दृष्टिहीनः।तथापि सः दृढनिश्चयं कृत्वा निर्गतवान् । नगरात् बहिः आगत्य परितः जनानाम् ध्वनीं श्रुतवान् ।"काशीनगरस्य मार्गम् भवत्सु कोsपि कृपया दर्शयति वा?" सः उचैः पृष्टवान् ।वृक्षस्य...
क्रोधः पराजितःभ्राता गौतमबुध्दस्य शिष्यत्वं स्व्यकरोत् अत: कश्चन बुध्दाय अक्रुध्यत् | पूर्वमेव तस्य मनसि बुध्दविषये तिरस्कार: आसीत् | स: वर्धमान: अभवत् | झटिति उत्थाय स: बुध्दस्य पुरत: निन्दाशब्ददानम् कृतवान् | बुध्दस्य शिष्या: तम् अवरोध्दुम् इच्छन्त: आसन् | किन्तु बुध्द: तान् सर्वान् तुष्णीकृतवान् | स: मनुष्य: निरन्तरं कटुवचनानि वदन् आसीत् | बुध्द: क्रुध्येत् किमपि प्रत्युत्तरं कुर्यात् इति स: अमन्यत | किन्तु बुध्द: शान्तचित्त: आसीत् |जामितं भुत्वा स: अपि तुष्णीकृतवान् | तदा बुध्द: तम् अपृच्छत् "भवत: गृहम् अतिथय: आगच्छन्ति...
विश्व संस्कृतपुस्तकमेलायां ये जना: गतवन्त: ते तु जानन्ति एव कियत् वृहद् कार्यक्रम: आसीत् एष: , किन्तु ये गन्तुं समयं न लब्धवन्त: तेषां कृते अत्र कानिचन् चलचित्राणि प्रस्तोमि यद्दृष्ट्वा भवन्त: तस्य कार्यक्रमस्य एकं विहंगमावलोकनं कर्तुं शक्क्ष्यन्ति । ।। एकं संक्षिप्त परिचयावलोकनम् ।।।। ग्रामन्यायालये न्यायाधीष: न्यायं करोति ।।।। जना: संस्कृतगीतं गीत्वा नृत्यं कुर्वन्ति ।।।। संस्कृतसाक्षात्कार: ।।।। वृद्धा: अपि संस्कृतं गीत्वा नृत्यति ।।इतोपि...
बहुभिः विराड्भिः भृशं प्रकाशमानैः च तारकैः परिपूर्णम् अनन्तम् आकाशम् इव आसीत् पुस्तकमेलायाः तत् चित्रम्। लक्षशः योजनानि यावद् विस्तीर्णाः तारकाः यथा अनन्ते आकाशे प्रकाशस्य बिन्दवः इव लक्ष्यन्ते तथैव विश्वस्य विविधेभ्यः भागेभ्यः आगताः शतशः विद्वांसः मेलाम् एतां दीपयन्ति स्म। भारतस्य विविधेभ्यः भागेभ्यः प्रायः ८००० जनाः आगताः आसन्। विविधानां संस्कृतसम्बद्धसंस्थानां प्रायः ३०० पुस्तकानि प्रकाशितानि। प्रायः ६०० संस्कृतसम्भाषणशिबिराणि सम्पन्नानि।...

सर्वेषाम कृते नमोनमः ।गीतायाः प्रथमे अध्याये दुखं, दुखस्य कारणं, दुखस्य प्रभाव: च निरूपितं कृतम् । दु:खस्य निवारणं किं नास्ति इदं अपि निरूपितं । कृपयाविस्टो अर्जुनः शास्त्रज्ञः अस्ति । स: कथयति - युद्धं मा करणीयं । युध्दे बन्धु-बान्धवाः नष्टाः भविष्यन्ति । स्त्रींजनाः प्रदुष्यन्ति कुलकलुषितं च करिष्यन्ति । वर्णसंकरे पिंड-पित्र तर्पणं न भविष्यति । अतः नरके अनियतं वासं भविष्यति । अतः अर्जुनः शास्त्रज्ञः अस्ति । किन्तु शास्त्रज्ञानेन...
धर्मक्षेत्रे अर्जुनः मोहग्रस्त: अभवत् । तस्य दु:खस्य कारणम् आसीत् केवलं द्वैतता । अस्मिन् युध्दक्षेत्रे मम बान्धवाः सन्ति । रिपुनाम मध्ये स्वजनाः अपि सन्ति । श्वशुरा: , मातुलाः, पुत्राः, पौत्राः च सन्ति । एकत्वं श्रेयश्करम् अस्ति । यदि एकत्वभावं अस्ति सर्वे जनाः मम वान्धवाः न सन्ति केपि शत्रु: । शुभम् अति सम्यकं च । किन्तु यदि द्वैत्भावम् अस्ति 'इदं मम, इदं न मम' तत्र कारणं दुखस्य । एकं विचारम् अस्ति - सर्वं मम एव अस्ति अथवा सर्वं...
श्री गीतायाः प्रथमश्लोकः अति विचारपूर्णः अस्ति श्लोक: अस्तिधर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवाःमामकाः पाण्डवाश्चैव, किमकुर्वत संजय । धृतराष्ट्रस्य प्रश्नं समस्तानां दु:खानां कारणं समावेशितं करोति । गीताज्ञानं समस्तानां दुखानां औषधिः । किन्तु औशधिप्रयोगस्य पूर्वं रोगः तस्य कारणं च चिन्तनीयम । दु:खम् अस्ति संसारस्य रोगम् । किं कारणं रोगस्य ? द्वैतता अस्ति अस्य कारणं । ' मामकाः पाण्ड्वस्य' इंगितं करोति संसारस्य...
आत्मीयमित्राणि,विश्वसंस्कृतपुस्तकमेलायाः विषये भारते सर्वत्र कुतुहलम् अस्ति।कीदृशः अयं कार्यक्रमः भविष्यति? के अस्य विशेषाः? के मान्यवराः अत्र समायास्यन्ति? इत्यादिविषये सर्वेऽपि विज्ञातुम् उत्सुकाः।संस्कृतभारत्याः अखिलभारतीयमन्त्रिमहोदयात् यत् इ-पत्रं मया प्राप्तं तस्मिन् कार्यक्रमस्य सम्पूर्णा समयसासिणी एव दत्ता आसीत्।सेयम् समयसारिणी मया इह भवतां कृते यथावत् प्रस्तूयते- विश्व संस्कृतपुस्तकमेला - समय सारिणी विस्तरस्तु उपरि दत्त जालपुटे...