प्रहेलिका"तात, महेशपितृव्यः दूरवाणीं कुर्यात् चेत् तेन सह सम्भाषणं न करिष्यामि। कतिवारम् असत्यं वदनीयम् ? तातः गृहे नास्ति इति असत्यं किमर्थं वदनीयम् ?"पितुः समीपे उत्तरं नासीत्। मालत्यै एवम् आचरणं कदापि न रोचते स्म। माता तु उपदिशति, सदैव सत्यमेव वदनीयम्। किन्तु तातः असत्यं वादयति। पयोहिमम् आनीय पित्रा पुत्रीं तोषयितुं प्रयासः क्रियते। तथापि मालती रुष्टा एव आसीत्।गृहस्य रङगकर्म प्रचलितम् आसीत्। अतः प्रतिदिनं पाठशालां गच्छन्ती मालती सप्ताहान्तेSपि...
आदरणीया: संस्‍कृतजगत: विद्वान्‍स: यथा वयं पश्‍याम: गतसु वर्षेसु जालजगति हिन्‍दीभाषाया: प्रभाव: वर्धित: । तत: पूर्वं जालजगति आंग्‍लभाषाया: एव वर्चस्‍वम् आसीत् । अस्‍माकं भारतदेशे तु हिन्‍दीभाषाया: अपि अधोगति: आसीत्  ।  एवं प्रतिभाति स्‍म यत् हिन्‍दीभाषाया: अपि गति: संस्‍कृतसदृशमेव भविष्‍यति किन्‍तु तदा एव जालजगति हिन्‍दीलेखकानां अवतरणं जातम्  ।  2001 तमे वर्षे कदाचित् हिन्‍दीभाषाया: अपि सा गति: आसीत् जालजगति या गति: अद्य संस्‍कृतस्‍य अस्ति  । तदा आसन् चत्‍वारि पंच जालपृष्‍ठा: केवलम्  । किन्‍तु...
दयामय ! देव ! दीनेषु  दयादृष्टि: सदा देया ।प्रतिज्ञा दीन रक्षाया दयालो ! जातु नो हेया ।।मनुष्या मानवा भूत्वा इदानीं दानवा जाता: ।तदेषा मूढता देशाद् द्रुतं दूरे त्वया नेया ।।त्वदुपदेशामृतं  त्यक्त्वा  विपन्नो हन्त लोकोयं ।तदुद्धाराय चैतेषां प्रभो ! गीता पुनर्गेया ।।किमधिकं ब्रूमहे भगवन् ! विनीतप्रार्थनैकेयम्  ।यदेते बालका: स्वीया: प्रभो नो विस्मृतिं  नेया:...
धीरोदात्तस्य राज्ञः विषये एका भिन्ना कथा।राजा शूरः आसीत्। तत्वचिन्तकः अपि। नुतनेषु गहनेषु विषयेषु सदैव चिन्तयन् आसीत्। विद्वासाम् आद्रियते स्म।तैः सह विविधेषु विषयेषु चर्चां करोति स्म।एकदा प्रातः उत्थाय तस्य मनसि कश्चन विचारः आगतः। किञ्चित् चिन्तयित्वा सः पण्डितां सभागृहे निमन्त्र्य संबोधितवान्।"कृपया मह्यम् एकं विशिष्टं वाक्यं कथयतु। यत् श्रुत्वा हसन्तः हसनं स्थगयेयुः। रुदन्तः रोदनं स्थगयेयुः। मया बहु चिन्तितम्। किन्तु-----। भवत्सु कोSपि...
जय जय हे भगवति सुरभारति !तव चरणौ प्रणमाम: ।।नादतत्‍वमयि जय वागीश्‍वरि !शरणं ते गच्‍छाम: ।।1।।त्‍वमसि शरण्‍या त्रिभुवनधन्‍या सुरमुनिवन्दितचरणा ।नवरसमधुरा कवितामुखरा स्मितरूचिरूचिराभरणा ।।2।।आसीना भव मानसहंसे कुन्‍दतुहिनशशिधवले !हर जडतां कुरू बुद्धिविकासं सितपंकजरूचिविमले ! ।।3।।ललितकलामयि ज्ञानविभामयि वीणापुस्‍तकधारिणि ! ।।मतिरास्‍तां नो तव पदकमले अयि कुण्‍ठाविषहारिणि ! ।।4।।जय जय हे भगवति सुरभा‍रति !तव चरणौ प्रणमाम:...
१- नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना, न चाभावयत:शान्तिरशान्तस्य कुत:सुखम.-६६ २- प्रसादे सर्व दु:खानां हानिरस्योपजायते प्रसन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते-६५ ३- रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन,अत्मवशयै:विधेयात्मा प्रसादमधिगच्छ...
पुरातनी कथा अस्ति ।काशीयात्रा करणीया नाम पूण्यकार्यं करणीयम् इति मानसिकता आसीत् । यात्रा सुकरा न। यतः प्रवासस्य इदानीम्तनम् साधनम् न आसीत् । विशालाः मार्गाः, मार्गे सुविधाः च न आसन् ।विष्णुदासः नाम्ना कश्चन अन्धः युवकः काशीयात्रां कर्तुम् इच्छुः आसीत् । किन्तु परिवारस्य, प्रतिवेशिनाम्, परिचितानाम् च अनुमतिः न आसीत् । एकत्र प्रवासः कठिनः अपरत्र सः दृष्टिहीनः।तथापि सः दृढनिश्चयं कृत्वा निर्गतवान् । नगरात् बहिः आगत्य परितः जनानाम् ध्वनीं श्रुतवान् ।"काशीनगरस्य मार्गम् भवत्सु कोsपि कृपया दर्शयति वा?" सः उचैः पृष्टवान् ।वृक्षस्य...

check this

Subscribe via email

Search